________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३३]
दीप
शाक्यास्तु वदन्ति-"यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्य वस्तु क्षणिक "ति, मीमांसकास्त मोक्षहै सर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाश्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेत|नतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तदावे वा न तद्वधे बन्धोऽल्पबन्धता बेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्-प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः। पञ्चभिरापद्यते हिंसा ॥१॥" इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि
वा ब्राह्मणाः श्रमणा धर्माविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति-से दिहं चणे' इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, ४|| 'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणा-13 यकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुर्वादेः सकाशात् , अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः-प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितंच-पर्यालोचितंच, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह-सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, 'अत्रापि धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणिहननादौ 'दोषः' पापानुबन्ध इति, एवं यावन्तः | केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्ध वा वादं भाषन्ते । अयं
अनुक्रम [१४६]]
Swatantram.org
~375~#