________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३०],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
ASKAR
[१३०]
दीप अनुक्रम [१४४]
प्कमिति, काय तया भाव तया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच विपर्यय इति, जातिकुलबलरूपतपःश्रुतलाभैश्वर्यमदाभावावुच्चैर्गोत्रं, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म वध्यते, एते ह्यास्रवाः, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः। एतानि च पदानि सम्बुध्यमानस्तीर्थकरगणधरैलॊकमभिसमेत्य पृथक् पृथक् प्रवेदितम्, अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह
आघाइ नाणी इह माणवाणं संसारपडिवपणाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अहावि संता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मचुमुहस्स अस्थि, इच्छा
पणीया वंकानिकेया कालगहिया निचयनिविटा पुढो पुढो जाई पकप्पयंति (सू० १३१) ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचने केषां?-मानवानां, सर्वसंवरचारित्रार्हत्वात्तेपाम्, अथवोपलक्षणं चैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतद्दर्शयति-'सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञात
wataneltman.arg
~369~#