SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], नियुक्ति: [६२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत दीप धोऽस्ति, संज्ञिनामपि केषाञ्चिद्भवति केषाश्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । एवमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, अतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम् , एतदेव नियुक्तिकृदाह केसिंचि नाणसण्णा अत्यि केसिंचि नत्थि जीवाणं । कोऽहं परंमि लोए आसी कयरा दिसाओ वा ॥३॥ केषाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषाश्चित्सु तदावृतिमतां न भवतीति । यादृगभूता संज्ञा न भवति तां दर्शयति-कोऽहं परमिन् 'लोके जन्मनि मनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामा-18 गनिपतितस्तच्छ-कृष्टश्वगणापलिज़मानवदनो गृहमानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुप्यादिरपीति गाथार्थः ॥ न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृदाह अत्थि मे आया उववाइए, नस्थि मे आया उववाइए, के अहं आसी ? के वा इओ चुए इह पेचा भविस्लामि ? (सू०३) , 'अस्ति' विद्यते 'ममे त्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः?-'औपपातिकः' उपपात:-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति, १ औषपातिकहत्यभिप्रागणैष तृतीयसूत्रावतरणभागः, चूर्व्यभिप्रायेण तु भविस्सामि' इति पर्यन्त उपसंहारः, 'भवति' इति 'तंजहा' इति चाधिकम्, अनुक्रम wwwandltimaryam | आत्मा विषयक अज्ञानताया: निरूपणं# ~35~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy