________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२१],नियुक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१२१]
दीप
नहरिद्वालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभ-1 वमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्-सामण्णमणुचरंतस्स कसाया जस्स उकडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामण्णं ॥ १ ॥ अजिअं चरित्तं देसूणाएवि पुब्बकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २ ॥"। स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-'एय' मित्यादि, 'एतद् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं' सर्व निरावरणत्वात्पश्यति-उपलभत इति पश्यः स एव पश्यकः-तीर्थकृत् श्रीवर्द्ध|मानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका. | किम्भूतस्य पश्यकस्य दर्शनमित्याह-उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्र शस्त्राद्वोपरतः शस्त्रोपरतः, भावे शखं त्वसंयमः कपाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थयाहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह-'पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् र्दशन मिति सण्टकः । यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्कानुसारीति दर्शयितुमाह-'आयाण' मित्यादि, आदीयते-गृह्यते
१ आमण्यमनुधरतः कषाया यस्वोत्कटा भवन्ति । मन्ये इक्षुपुष्पयन निष्फलं तस्य श्रामण्यम् ॥ १॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोव्या । तदपि | कपायितमात्रो हारयति नरो मुहूर्तेन ॥२॥
अनुक्रम [१३४]
HERE
wwwanatimarmarg
~345~#