________________
आगम
(०१)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम [१२५ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [११५], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
संधि लोस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता न विधायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पार्व कम्मं, किं तत्थ मुणी कारणं सिया? (सू० ११५)
तत्र सन्धिर्वव्यतो भावतश्च तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्म्मविवरं तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं | शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीय क्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान् एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति यदिवा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कम्र्म्मोदयात् क्रुष्यतः पुनः सन्धानं मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शन चारित्रार्ह भावसन्धि ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः - अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्य - भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्रात्मौपम्यं समाचरेदित्याह - 'आयओ' इत्यादि, यथा ह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि आत्मनो व्यतिरिकानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च 'पश्य' अवधारय । तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्त्तव्यमित्याह - 'तम्हा' इत्यादि, यस्मात्सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्स वस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यान्नाप्यपरैस्तान् जन्तून् विविधैः नानाप्रकारैरुपा
Jan Estucation Intimatinal
For Parts O
~333~#