________________
आगम (०१)
प्रत
सूत्रांक
[११४]
दीप
अनुक्रम [१२२]
श्रीआचाराङ्गवृत्तिः
(शी०)
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [११४], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
नाणी, उक्वायं चवणं णच्चा, अणवणं चर माहणे, से न छणेन छणावए छणतं नाणुजाणइ, निविंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं (सू०११४)
॥ १६३ ॥
एवम् अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य 'इत्येवेति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 8 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च ॐ समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह -- 'तम्हा' यस्माद्वान्तभोगतया कृतप्रति22 ज्ञस्तस्माद्भोग लिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति--' निस्सारं इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा 'ज्ञानी' तत्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- 'उबवायं चवणं णच्चा' उपपातं जन्म च्यवनं - पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति यतो निःसारो विषयग्रामः | समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि ततः किं कर्त्तव्यमित्याह- 'अणण्णमित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः- ज्ञानादिकस्तं चर 'माहण' इति मुनिः । किं च- 'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थत्रत सिद्धये स्विदमुपदिश्यते— 'निषिद' इत्यादि, निर्विन्दस्त्र- जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तो - रागरहितो,
Jan Estication Intemational
For Pantry Use Only
~330 ~#
शीतो० ३ उद्देशकः २
॥ १६३ ॥
www.india.org