SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१०९ ] दीप अनुक्रम [११३] श्रीआचाराङ्गवृत्तिः (शी०) ॥ १५६ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०९], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्र भूतमात्मपरोपकारिणं वेत्ति, शस्त्रास्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत्फलत्वात् ज्ञानस्येति यदिवा शब्दादिपर्यायेभ्य स्तजनित रागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि | कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदश इति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरो धादनादिभवोपात्तकर्म्मक्षयः । कर्मक्षयाच्च यद्भवति तदप्यतिदिशति - 'अकम्मस्स' इत्यादि, न विद्यते कर्म्माष्टप्रकारतमस्येत्य कर्म्मा तस्य 'व्यवहारो न विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्त कापर्याप्त कबालकुमारादिसंसारिव्यपदेशभागू भवति । यश्च सकर्म्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह- 'कम्मुणा' इत्यादि, उपाधीयते व्यपदिश्यते येनेत्युपाधिः- विशेषणं स उपाधिः कर्म्मणा - ज्ञानावरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान्नपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्यातकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह – 'कम्मं च इत्यादि, कर्म्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पर्यालोच्य तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्म्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा - अष्टविधसत्कर्मापूर्वादिकरणक्ष Jan Estication Intel For Pantry O ~316~# शीतो० ३ उद्देशकः १ ॥ १५६ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy