________________
आगम
(०१)
प्रत
सूत्रांक
[१०८]
दीप
अनुक्रम [११२]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०८], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीपहावतिसहमान: संयमासंयम रत्यरतिसहः सन् परुषतां - कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्म्मले पापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च - 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागतति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्म्मधारयः, क एवम्भूतो- 'वीरः' कर्म्मापनयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा दुःखादुःखकारणाद्वा कर्म्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह – जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्ग नाभिजानीते - नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च- "देवा णं भंते! सव्वे समवण्णा ?, नो इणडे समहे, सेकेण णं भंते! एवं
१ देवा भदन्त ! सर्वे समवर्णाः, नैषोऽर्थः समर्थः, तत् केन्नार्थेन भदन्त । एवमुच्यते ? गौतम! देवर द्विविधाः पूर्वोत्पन्नकाच पश्चादुपपद्मकाच । तत्र से पूर्वोत्पन्न कास्तेऽविशुद्धवर्णाः, ये पधादुपमास्ते विशुद्धवर्णाः
Etication matinal
For Pantry Use Only
~313~#
www.india.org