________________
आगम
(०१)
प्रत
सूत्रांक
[१०४]
दीप
अनुक्रम [१०८ ]
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०४...], निर्युक्तिः [२०२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
'शीत' मिति भावशीतं, तछेह जीवपरिणामस्वरूपं गृह्यते स चायं परिणामो मार्गाच्यवननिर्जरार्थं परिपोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति 'रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्व परीषहादि शीतमुष्णं च गाथाशकलेनाह- परीपहा:- पूर्वव्य । वर्णितस्वरूपाः तपस्युद्यमो यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टामाप्तिविनाशोद्भवः आधिः 'वेदः' स्त्रीपुंनपुंसक वेदोदयः 'अरतिः' मोहनीयविपाकाञ्चित्तदौःस्थ्यं 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीपहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थं तु निर्युक्तिकारः स्वत एवाचष्टे-तत्र परीपहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह
इत्थी सक्कारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥ २०३ ॥ स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ भावमनोऽनुकूलत्वात् शेषास्तु पुनविंशतिरुष्णा ज्ञातव्या भवन्ति, | मनसः प्रतिकूलत्वादिति गाथार्थः ॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे
जे तिब्वप्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदप्परिणामा परीसहा ते भवे सीया ॥ २०४ ॥ दारं । तीव्रो - दुःसहः परिणामः - परिणतिर्येषां ते तथा य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते सीता इति, इदमुक्तं भवति-ये शरीरदुःखोत्यादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुन
Jan Estication matinal
For Pantry at Use Only
~303~#