________________
आगम
(०१)
प्रत
सूत्रांक
[१०४]
दीप
अनुक्रम [१०८ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [-] मूलं [ १०४...], निर्युक्ति: [१९८] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अथ तृतीयमध्ययनं शीतोष्णीयं ।
SECRET
उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथा शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोतमहाव्रत सम्पन्नस्य लोकविजयाध्ययनप्रसिद्ध संयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषदाः प्रादुष्यन्ति तेऽविकृतान्तःकरणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेषा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्दे|शार्थाधिकारप्रतिपादनार्थे तु निर्युक्तिकार आह
पढमे सुत्ता अस्संजयन्ति १ बिए दुहं अणुहवंति २। तइए न हु दुक्खेणं अकरणयाए व समत्ति ३ ॥ १९८ ॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ चिउणो उ संजमो इत्थ मुक्खुत्ति ४ ॥ १९९ ॥ प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः सम्यगविवेकरहिताः, के? - असंयताः - गृहस्थास्तेषां च भात्रसुतानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा- 'जरामच्चुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा- 'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःख सहनादेव केवलाच्छ्रमणः अकरणतयैव - अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च - 'सहिए दुक्खमायाय
Estication Intimal
तृतीय- अध्ययनं “शीतोष्णिय” आरब्धः,
For Pantry Use Only
~301 ~#