________________
आगम
(०१)
प्रत
सूत्रांक
[१०२ ]
दीप
अनुक्रम [१०६ ]
श्रीआचाराङ्गवृत्तिः (शी०)
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उद्देशका ६
॥ १४७ ॥
पेतो वा स एवंभूतः कं गुणमत्रानोतीत्याह - 'न लिप्पईत्यादि, 'न लिप्यते' नावगुण्ठ्यते, केन ? - 'क्षणपदेन' हिंसास्पदेन ४ लोक.वि. २ प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामित्यस्यैतद्रूपं । कोऽसौ ?, वीर इति । किमेतावदेव बीरलक्षणमुतान्यदप्य (स्त्य) स्तीत्याह - 'से मेहावी'त्यादि, स 'मेधावी' बुद्धिमान् यः 'अणोघातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं४ कर्म तस्योत् प्राबल्येन घातनम् अपनयनं तस्य तत्र वा खेदज्ञो निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्म्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत् - 'जे य' इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य | कपायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिका चितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्त्तेति ?, उच्यते- 'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकर्म्माशो विवक्षितः, स च तीर्थकृत् सामान्य केवली वा छद्मस्थो हि कर्म्मणा बद्धो मोक्षार्थी तदुपायान्बेषकः, केवली तु पुनर्घातिकर्म्मक्षयानो बद्धो भवोपग्राहिकर्म्मसद्भावाशो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते - 'कुशल: ' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद
Jan Estication Untamal
For Para Prata Use Only
~298~#
॥ १४७ ॥