________________
आगम
(०१)
प्रत
सूत्रांक
[१०१]
दीप
अनुक्रम [१०५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [६], मूलं [१०१], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
लोक.वि. २
॥ १४५ ॥
श्रीआचाच । किं च-' इति कम्' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तद्दुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां राङ्गवृत्तिः कुशला उदाहरन्ति तद्दुःखं कर्म्मकृतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रयद्वाराणि च तद्यथा-ज्ञानप्रत्यनीकतया ज्ञाना(शी०) वरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्त्तेत, ५ उद्देशकः ६ अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्द्दशपूर्वविदो वा, यदिवा सर्वशः कथ५ यति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीदृकथेत्याह- 'जे' इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा नासावनन्यदर्शी - यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो ? - यः सम्यग्दृष्टिमनीन्द्रमवचनाविभूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह- 'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति उक्तं च " शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रधीद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः ॥ १ ॥” इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंञ्चारक्तद्विष्टः कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्त्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते 'तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णा
१] कथाचतुष्टय लक्षणं विदंस्थाप्यते हेटान्तैः समतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं सा कथाऽऽक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र पूर्वापरबिरोधकृत् । तनिराक्रियते सद्भिः सा च विक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भव्यानां सा च विद्वद्भिः प्रोता संवेदनी कथा ॥३॥ यत्र संसारभोगान स्थितिलक्षणवर्णनम्। वैराग्यकारणे भव्यैः, सोफा निर्वेदनीकथा ॥ ४ ॥
Jain Estication Intel
For Pantry Use Onl
~294 ~#
॥ १४५ ॥