________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [३७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
भवति' संज्ञान संज्ञा स्मृतिरवबोध इत्यनान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदा-15) भावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशब्देन प्रतिषेधः इति ?, अनट प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्के सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां |सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः-"कैइ णं भंते ! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगस
ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतोनोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथा-18 हि-नोघट इत्युक्ते यथा घटाभावमात्र प्रतीयते, तथा प्रकरणादिप्रंसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थ च जगति नोशब्दः। स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥१॥" इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थेमाह
१ कति भदन्त ! संसाः प्राप्ताः ?, गौतम! दश संज्ञाः प्रशताः, तद्यथा-आहारसंज्ञा भवसंज्ञा मैथुनसंझा परिप्रहसंज्ञा कोवसंज्ञा मागसंझा मायारका लोभसंशा ओषसंज्ञा लोकसंज्ञा.
२०के पटाभावमानं प्रतीयते अर्थप्रसकनिषेधेन चाप्रसक्तस्य प्र.
AAAAAAAA
सूत्राधिकारे प्रथमं सूत्रम्, संज्ञा शब्दस्य विविध भेदा:
~27~#