SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [३७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन | CROCEROSAGAR ॥ सुयं मे आउस ! तेणं भगवया एवमक्खायं-इहमेगेसि णो सपणा भवइ (सू०१) सुत्तं अहहि य गुणेहिं उबवेयं ॥१॥ इत्यादि, तच्चेदं सूत्रम्-'सुर्य मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसि णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोचारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुवन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्पतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जंबूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद् । अनेन स्वमनीषिकाब्युदासो, 'मयेति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्निति जात्यादिगुणसंभवेऽपि दीपोंयुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा-आमृशता भगवत्पादारविन्दम् , अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्तव्य इत्यावेदितं भवति, एतथार्थद्वयं 'आमुसंतेण आवसंतेणेत्येतत्याठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवते'ति भगः-ऐश्वर्यादिषडर्धात्मकः सोऽस्यास्तीति भगवान् तेन, एवं'मिति वक्ष्यमाणविधिना 'आख्यात'मित्यनेन कृतकत्वब्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे। शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा-'इहेति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा १ चूर्वभिप्रायेण द्वितीयसूत्रावतरणमेतत. २ पत्तेयं पत्तेयं (गणहरा) सित्तेहिं पजुवासिन्जमाणा एवं भगति-'सुर्य मे० (इति चूर्णिः). डर ॥११॥ wwwandltimaryam सूत्राधिकारे प्रथमं सूत्रम् ~26~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy