SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [30] दीप अनुक्रम [२] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [५] मूलं [९०], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः न परिग्रहो धम्र्मोपकरणम् ?, उक्तं च- "ममाहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनर्थोत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १ ॥” नैष दोषः, न हि धम्मोंपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः- “अवि अप्पणोऽवि देहंमि, नायरंति ममाइलं", यदिह परिगृहीतं कर्म्मबन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्म्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीति । आह च अन्ना णं पासए परिहरिजा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासि तिवेमि (सू० ९१ ) णमिति वाक्यालङ्कारे, 'अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्, यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः तथाहि अयमस्याशयः- आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धम्र्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च--" साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥ ॥" अत्र चाईताभासेबोंटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थंकराभिप्रायेणापि सिसाधयिषुराह-- 'एस मग्गे' इत्यादि, धम्र्मोपकरणं न | परिग्रहायेत्येषः - अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधम्र्मेभ्य इत्यार्याः- तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौगलिखातिपुत्राभ्यां १ अध्यात्मनोऽपि देहे नाचरन्ति ममायितुम् Jan Estication Intimatinal For Parts Only ~273~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy