________________
आगम
(०१)
प्रत सूत्रांक
[८]
दीप
अनुक्रम [८३]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [८१], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
द्रव्यभावभेदात्, द्रव्यौघो नदीपूरादिको भावोघोऽष्टप्रकारं कर्म संसारो वा तेन हि प्राप्यनन्तमपि कालमुह्यते, तमओषं ज्ञानदर्शनचारित्रबोहित्यस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोपन्तराः, तरतेश्छान्दसत्वात् खशू, खिस्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभ्रावात् न ओघतरणसमर्था भवन्तीति, आह च'नो य ओहं तरित्तए' 'न च' नैवोघं भावौषं तरितुं समर्थाः, संसारीघतरणप्रत्यला न भवन्तीत्यर्थः तथा 'अतीरंगमा' इत्यादि, तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकं, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापशान् कुतीर्थिकादीन् दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः तथा 'अपारंगमा' इत्यादि, पार:-तटः परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारंगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः - पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम्, अथ तीरपारयोः को विशेष इति उच्यते, तीरं मोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः स्यात् कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह-'आयाणिज्जं' इत्यादि, आदीयन्ते -गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय
Jain Education Intemational
For Parts Use One
~251~#
www.jandibran org