________________
आगम
(०१)
प्रत
सूत्रांक
[८]
दीप
अनुक्रम
[८१ + ८२]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १२३ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [ ८० ], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह - 'तंपि से' इत्यादि, तदपि समुद्रोतरणरोहणखनन विलप्रवेश रसेन्द्रमर्दन राजा व लगन कृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभो गायोपार्जितं सत् 'से' तस्यार्थोपार्जनोपायक्लेशकारिणः 'एकदा 'भाग्यक्षये 'दायादाः' पितृपिण्डोदकदानयोग्याः 'विभजन्ते' विलुम्पन्ति, 'अदत्तहारो वा' दस्युर्वा अपहरति राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा स्वत एवाटवीतः 'से' तस्य 'विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति — 'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो नाशमुपैति नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै अन्यस्मै अर्थाय प्रयोजनाय अन्यप्रयोजनकृते 'क्रूराणि' गलकर्त्तनादीनि कर्माणि' अनुष्ठानानि 'वाल:' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्म्मविपाकापादितेन 'दुःखेन' असातोदयेन ' (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगत सदसद्विवेकत्वात्कार्यमकार्य मन्यते व्यत्ययं चेति, उक्तं च-- " रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ १ ॥” तदेवं मौन्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थ स्वरूपाविर्भावकमाललम्बिरे मुनयः, अदक्ष मया न स्वमनीषिकयोच्यते सुधर्म्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तदमित्यत आह'मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:- तीर्थकृत्तेन 'एतद्' असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षेणादी या | सर्वस्वभाषानुगामिन्या वाचा वेदितं कथितं वक्ष्यमाणं च प्रवेदितं किं तदित्याह - 'अणोहं' इत्यादि, ओघो द्विधा
Education Intamational
Fat Para Privata the Ont
~250~#
लोक.वि. २ उदेशकः ३
॥ १२३ ॥