________________
आगम
(०१)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम [७३]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [७२], निर्युक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भवति-संयमे रतिं कुब्बत, तद्विहितरतेस्तु न किञ्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च- “क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १ ॥ तैणसंचारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं तं कत्तो चकवट्टीवि ? ॥ २ ॥” इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्निर्युक्तिकारो गाथयाऽऽचष्टे
विइउसे अदढो उ संजमे कोइ हुज्ज अरईए । अन्नाणकम्मलो भाइएहिँ अज्झत्थदोसेहिं ॥ १९७ ॥ इह हि प्रथमोदेश के बह्रयो निर्युक्तिगाथा अस्मिंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थे द्वितीयोदेशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अदृढः' शिथिलो मोहनीयोदयादरत्युद्भवाद्भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञान लोभादयः, आदि| शब्दादिच्छामदनकामानां परिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाधार्थः ॥ [द्वितीयाध्य यने द्वितीयोदेशक नियुक्तिः ] ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्त्तत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च- " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । १ तृणसंस्तारनिषण्णोऽपि मुनिवरो अरामद मोहः । यत्प्राप्नोति मुक्तिमुखं कुतस्तद कवपि ॥ १ ॥
Esticatonttumational
For Parts O
पुनः अत्र निर्युक्ति क्रमे मुद्रण-दोष: (१८६ के बजाय सीधा १९७ क्रम दे दिया है, इसके पूर्व क्रम १६३ से १७१ दो बार दिये थे)
~227 ~#