________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६२]]
दीप
मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत्' तिष्ठेदिति. उक्तं च-"पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्द पशुमिव मृत्युर्जमं हरति ॥१॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाहुःखमामोति ॥२॥" अमुमेवार्थ नियुक्तिकारो गाथाद्वयेनाह
संसार छेतुमणो कम्म उम्मूलए तदहाए । उम्मूलिज्ज कसाया तम्हा उ चइज्ज सपणाई ॥१८५॥
माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। अस्थंमि चेव गिद्धा जम्मणमरणाणि पायति॥१८॥ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थ च तत्कारणभूतान् कषायानुन्मूलयेत् , कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-रत्नकुप्यादिके गृद्धाः-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्रामुवन्तीसि गाथाद्धयार्थः ॥ तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतसरो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिं च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा-"कइया वच्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी । को कयविक्कयकालो निविसइ किं कहिं केण? ॥१॥"
१कदा मजति सार्थः कि भाण्ट कुत्र कियती भूमिः । कः कयविक्रयकालो मिर्विषयति (निर्विशति) केन! ॥१॥
अनुक्रम
KARE
[६३]
~ 205~#