________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
[६२]
दीप
त्वाच सूत्रस्येत्येवमपि द्रष्टव्य-यो गुणे गुणेषु वा वर्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्तते सही दाएव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे गुणे वर्तते स एवं संसारमूलकषायादिस्थानादी
वर्त्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं-यो गुणः स| एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति, यो गुणः शब्दादिकोऽसावेव संसारस्य कपायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्यं, विषयनिर्देशे च | विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम्, इह च सब्बैज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावग-12 स्तव्या, तथाहि-मूलमत्र कषायादिकमुपन्यस्त, कषायाश्च क्रोधादयश्चत्वारः, कोधोऽप्यनन्तानुवन्ध्यादिभेदेन चतुद्धों,x अनन्तानुबन्धिनोऽप्यसइख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषां च प्रत्येकं स्थानगुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वा(दनन्तत्वा)चाशक्या दर्शयितुं, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना च कार्येति । तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तं, ततः किमित्यत आह–'इति से गुणही महया इत्यादि, इतिहेती यस्माच्छन्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी | गुणानुरागीत्यतस्तेषां गुणानामप्राप्ती प्राप्तिनाशे वा कालाशोकाभ्यां स प्राणी 'महता' अपरिमितेन परि-समन्तात्तापः परितापस्तेन-शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत्' तिष्ठेदुपयेत, किम्भूतः
अनुक्रम [६३]
5525%
wwwanditimaryam
~203~23