________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रा
[६१]]
OCALCCANCER
हापरि रूपादिप्रवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योस्कृष्टषिशेषः पूर्ववत्, तासां संसारे|ऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति-अध्रुववर्गणोपरि प्रदेशब्याऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमासउल्येयभागप्रदेशगुणोत्कष्टा, तदुपरि रूपोत्तरादिवृक्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यव-I गणात उत्कृष्टा त्वसख्येयभागप्रदेशगुणा, तदसम्ख्येयभागोऽध्यसख्येयलोकात्मक इति द्वितीया शून्यधर्मणा, तदुपरि रूपादिवृझ्या बादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासण्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा, को गुणकार इति?, उच्यते, अङ्गलासङ्ख्येयभागप्रदेशराशेरावलिकाकालासङ्ख्येयभागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्यासख्येयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्तरपृड्या जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासङ्|ख्येयाः श्रेण्यः, ताश्च प्रतरासख्येयभागतुल्या इति, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जयन्यात उत्कृष्टा क्षेत्रपस्योपमस्यासङ्ख्येयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाकायलक्षणः पञ्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा, एवं वाग्योगोऽपि, काय
अनुक्रम [६२
wwwanatimarmarg
~191~#