________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
अनुक्रम [६२]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], निर्युक्ति: [१७६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| द्वेषतिमिरो पप्लुतरष्टेर्मनोज्ञेतरविषयोपलब्धौ सत्यां कषाया 'वर्त्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादि विषयोद्भूत (ताः) कषायाः 'संसारे' संसार विषयं मूलस्थानमेवेति एतदुक्तं भवति - रागाद्युपहतचेताः परमार्थम जानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तसरिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्री महतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ १ ॥” द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविपयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्म्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह-जह सव्वपायचाणं भूमीए पट्टियाई मूलाई । इय कम्मपायचाणं संसारपट्टिया मूला || १७७ || यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ ननु च कथमेतच्छ्रद्धेयं कर्म्मणः कपाया मूलमिति ?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः, तथा चागमः-- "जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ?, गोयमा! दोहिं ठाणेहिं, तंजहारागेण व दोसेण व रागे दुविहे माया लोभे य, दोसे दुबिहे-कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगृहिए हिं
१ जीवो मदन्त । कविभिः स्थानैर्ज्ञानावरणीयं कर्म बनाति, गौतम द्वाभ्यां स्थानाभ्यां तद्यथा-रागेण वा द्वेषेण वा रागो द्विविधो माया लोभव, द्वेषो द्विविधः कोषश्च मानव, एतैचतुर्भिः स्थानीय पवैर्ज्ञानावरणीयं कर्म बञ्जाति.
Jain Estication intumatl
For Pantry Use Only
~183~#
www.india.org