________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
-
सूत्राक
-
[६१]]
-
-
दास्थानं यो यत्र ग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथा
ख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खधेयानि संयमस्थानानि, कियदसङ्घयमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं
शक्यते, आगमानुसारोपमया तूच्यते-इहकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योC|निकायत्वेन परिणता असङ्खधेयगुणाः, ततोऽपि तत्कायस्थितिरसवयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थाना-1 न्यसङ्ख्यगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुखीनां प्रत्येकमसङ्खधेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहर्तिकत्वादन्तर्मुहर्तसमयतुल्यान्यसङ्ख्येयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्ट संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यधा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम् , असलचेयसंयमस्थाननिर्तितं कण्डक, तैश्चासङ्खधेयैर्जनितं षट्स्थानक, तदसङ्खधेयात्मिका श्रेणीति । प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थान प्रग्रहस्थानं, लौकिकं तावत्सश्वविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविध, तद्यधा-आचार्योपाध्यायप्रवृ|त्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात् , तद्यथा-सादिसपर्यवसानं परमाण्वादेव्यस्यैकप्रदेशादाववस्थानं जघन्यत एक समयमुत्कृष्टतश्चासतधेयकालमिति, साधपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारू
-
अनुक्रम [६२
-
~181~#