________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१६], नियुक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[५६]]
दीप
तुलमन्नेसि'मित्यादि, एतां तुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसी तुला ?, यथाऽऽत्मानं सर्वथा सु-13 खाभिलाषितया रक्षसि तथाऽपरमपि रक्ष, यथा परं तथाऽऽत्मानमित्येता तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तं च-"कडेणे कंटएण व पाए विद्धस्स वेयणट्टस्स । जह होइ अनिवाणी सव्वत्थ जिएसुतं जाण ॥१॥" तथा "मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥ |अतश्च यथाऽभिहिततुलातुलितस्वपरा नैराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति
इह संतिगया दविया णावकंखंति जीविङ (सू० ५७) 'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् , तामेवंविधा शान्ति गताः-प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्मका-13 ठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकान्ति-न वाञ्छन्ति नाभिलपन्तीत्यर्थः, किं नावकाङ्क्षन्ति ?-'जीवितुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्गन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृधिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तद्व्यवस्थिता एवोन्मूलितातितुङ्गरा-1
१ काष्ठेन कण्टकेन वा पादे विद्धय पैदनातस्य । यथा भवत्य निर्वाणी (असाता) सर्वत्र जीवेषु ता जानीहि ॥१॥ २ सपरान्तराः. प्र.
अनुक्रम
[१७]
wwwandltimaryam
~157~#