________________
आगम (०१)
प्रत
सूत्रांक
[44]
दीप
अनुक्रम
[ ५६ ]
श्रीआचाराङ्गवृत्तिः
(शी०)
1104 11
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [७], मूलं [ ५४ ], निर्युक्ति: [१७१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्या- तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा 'पहू य एगस्स दुर्गुछणाए' उद्रेकांवस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको - वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः ॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयतिआयंकसी अहिंयंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाइसे अज्झत्थं जाणइ, एयं तुलमन्नेसिं ( सू० ५६ )
'तकि कृच्छ्रजीवन' इत्याङ्कनमातङ्कः- कृच्छ्रजीवनं दुःखं, तच्च द्विविधं शारीरं मानसं च तत्राद्यं कण्टकक्षारशखगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्र्य दौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्कं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतङ्को द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्यात इदमुदाहरणम्-जर्बुदीवे दीवे भरहे वासंमि अस्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति ॥ १ ॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥ २ ॥ अण१० मापतितमध्यनिवृत प्र. अन्नामीति सम्बोधनेऽन्यस्याश्रयै वा. २ जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् बहुनगरगुणसमृद्धं राजगृहं नाम नगरमिति ॥ १ ॥ तत्रासीत् गुरुदतारिमर्दनो भुवननितप्रतापः । अभिगतजीवाजीचो राजा नाना जितशत्रुः ॥ २ ॥
Jan Estication Internal
For Paint Use Only
~ 154 ~#
शस्त्र. परि१ उद्देशकः ७
॥ ७५ ॥