________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३८...], नियुक्ति: [१३६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [३९]]
साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्षणं एवं ॥ १३६ ॥ समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानां जीवानां साधारण' सामान्यमेकमाहारग्रहण तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवतिएकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्रसिते निःश्वसिते वा सर्वेऽप्युच्छसिता निःश्वसिता वेति ॥ अमुमेवार्थ सष्टयितुमाह___ एगस्स उ जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ।। १३७ ॥
एको यदुच्छासनिःश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच बहवो ग्रहणमकापुरेकस्यापि तदेवेति ॥ अथ ये बीजात्परोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह
जोणिम्भूए बीए जीवो वकमह सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए ॥१३८ ॥
अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, वीजस्य हि द्विविधावस्था-योन्यवस्था अ-18 योन्यवस्था च, यदा योन्यवस्था न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुसत्तिस्था-1 नमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्कामति' उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोपद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथम
~121~#