________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३०...], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[३०]
दीप अनुक्रम
एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्ख उदीरति ॥ १२२॥ 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् “हिंसन्ती'ति सङ्घटनपरितापनापद्रावणानि कुर्वन्ति 'सात' सुर्ख तदात्मनोऽन्विष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ॥ साम्प्रतं शस्त्रद्वारं, तच्च द्रव्यभावशखभेदात् द्विधा, द्रव्यशनमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह
पुढयी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एयं तु समासओ सत्थं ॥ १२३ ॥ 'पृथिवी' धूलिः अप्कायश्च आर्द्रश्च धनसतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शस्त्रमिति ॥ विभागतो द्रव्यशस्त्रमाह| किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु दब्बसस्थं भावे य असंजमो सत्थं ॥१२४ ।। किञ्चिच्छखं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-ताणोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्उदकादि, उभयशस्त्र पुनः-तुषकरीपादिव्यतिमिश्रोऽग्निरपराग्ने, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, 'एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्पणिहितमनोवाकायलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीनियुक्तिकृदाह
सेसाई दाराई ताई जाई हवंति पुढवीए । एवं तेउद्देसे निब्रुत्ती कित्तिया एसा ॥ १२५ ॥ उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके।
wwwandltimaryam
~105~#