________________
प्रमेयरत्नमाला
सदृशपरिणामस्तिर्यक्, खण्डमुण्डादिषु गोत्ववत् ॥ ४ ॥ नित्यैकरूपस्य गोत्वादेः क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । प्रत्येकं परिसमाप्त्या व्यक्तिषु नृत्ययोगाच्चानेकं सदृशपरिणामात्मकमेवेति तिर्यक्सामान्यमुक्तम् || द्वितीयभेदमपि सदृष्टान्तमुपदर्शयतिपरापरविवर्त्तव्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिष्विति ॥ ५ ॥
सामान्यमिति वर्तते तेनायमर्थः - ऊर्ध्वता सामान्यं भवति । किं तत् १ द्रव्यम् । तदेव विशिष्यते परापरविवर्तव्यापीति पूर्वापरकालवतिंत्रिकालानुयायीत्यर्थः । चित्रज्ञानस्यैकस्य युगपद्भाव्यनेकस्वगतनीलाद्याकारव्यासिवदेकस्य क्रमभाविपरिणामव्यापित्वमित्यर्थः ।। विशेषस्यापि द्वैविध्यमुपदर्शयति
६०
विशेषश्चेति ॥ ६ ॥
द्वेधेत्यधिक्रियमाणेनाभिसम्बन्धः । तदेव प्रतिपादयतिपर्यायव्यतिरेकभेदादिति ॥ ७ ॥
प्रथमविशेषभेदमाद
एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया श्रात्मनि हर्षविषादादिवदिति ॥ ८ ॥
तत्र
अत्रात्मद्रव्यं स्वदेहप्रमितिमात्रमेव न व्यापकम् । नापि वटकणिकामात्रम् । न च कायाकारपरिणतभूत कदम्बकमिति, व्यापकत्वे परेषामनुमानमात्मा व्यापकः द्रव्यत्वे सत्यमूर्तत्वादाकाशवदिति । तत्र यदि रूपादिलक्षणं मूर्तत्वं तत्प्रतिषेधोऽमृतत्वं तदा मनसाऽनेकान्तः ॥ अथासर्वगतद्रव्यपरिमाणं मूर्तत्वं तन्निषेधस्तथा चेत्परं - प्रति साध्यसमो हेतु: ।। यच्चापरमनुमानम् - आत्मा व्यापकः अणुपरिमारणानधिकरणत्वे सति नित्यद्रव्यत्वादाकाशवदिति । तदपि न साधुसाधनम् । अणुपरिमाणानधिकरणत्वमित्रत्य किमयं नञर्थः पर्युदासः प्रसज्यो वा भवेत् ? तत्राद्यपते अणुपरिमाण प्रतिषेधेन महापरिमाणमवान्तरपरिमाणं परिमाणमात्रं वा ? महापरिमाणं चेत् साध्यसमो हेतुः । श्रवान्तरपरिमाणं चेत् विरुद्धो हेतुरवान्तरपरिमाणाधिकरणत्वं व्यापकत्वमेव साधयतीति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org