________________
मेयरत्नमाला
1
परिमाणमात्रं चेत् तत्परिमाणसामान्यमङ्गीकर्तव्यम् । तथाचाणुपरिमाणप्रतिषेधेन परिमाणसामान्याधिकरणत्वमात्मन इत्युक्तम् । तच्चानुपपन्नं, व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणसामान्यमात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिष्वेवेति || न चावान्तरमहापरिमाणद्वयाधारतयाऽऽत्मन्यप्रतिपन्ने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । श्राकाशस्य महापरिमाणाधिकरणतया परिमाणमात्राधिकरणत्वायोगात् || नित्यद्रव्यत्वं च सर्वथाऽसिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपक्षेऽपि तुच्छा भावस्य ग्रहरणोपायासम्भवात् न विशेषणत्वम् । न चागृहीतविशेषणं नाम न चागृहीतविशेषणविशेष्ये बुद्धिरिति वचनान्न प्रत्यक्षं तद्ग्रहरणोपायः सम्बन्धाभावादिन्द्रियार्थसन्निकर्षजं हि प्रत्यक्षं तन्मतेऽप्रसिद्धम् || विशेषणविशेष्यभावकल्पनायामभावस्य नागृहीतस्य विशेषणत्वमिति तदेव दूषणम् । तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रं कमनीयकान्ताकुचजघनसंस्पर्शकाले प्रतिलोमकूपमाह्लादनाकारस्य सुखस्यानुभवनात् । अन्यथा सर्वाङ्गीणरोमाश्चादिकार्योदयायोगात् ॥ आशुवृत्यालातचक्रवत् क्रमेणैव तत्सुखमित्यनुपपन्नम् ।। परापरान्तःकरणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधानप्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षत्वायोगादिति । नापि पृथिव्यादिचतुष्टयात्मकत्वमात्मनः सम्भाव्यते । अचेतनेभ्यश्चैतन्योत्पत्ययोगाद्धाररणद्रवोष्णतालक्षणान्वयाभावाच्च । तदहर्जातबालकस्य स्तनादावभिलाषाभावप्रसङ्गाच्च । अभिलाषो हि प्रत्यभिज्ञाने भवति, तच्च स्मरणे स्मरणं चानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यदशायां तथैव व्याप्तेः । मृतानां रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयतां दर्शनात् ॥ केषाञ्चित् भवस्मृतेरुपलम्भाच्चानादिश्चेतनः सिद्ध एव ॥ तथा चोक्तम् — तदहर्जस्तने हातो रक्षोदृष्टेर्भवस्मृतेः । भूतानन्वयनात्सिद्धः प्रकृतिज्ञः सनातनः ॥ १ ॥ इति । न च स्वदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावात् सर्वत्र संशय इति वक्तव्यं तत्रानुमानस्य सद्भावात् । तथाहि देवदत्तात्मा तदेह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्रैव यत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्रैव च विद्यते यथा देवदत्तगृहे एव तत्र सर्वत्रैव चोपलभ्यमानः स्वा
I
Jain Education International
For Personal & Private Use Only
६१
www.jainelibrary.org