________________
प्रमेयरत्नमाला प्रतीतेस्तस्याश्रितत्वमुपकल्प्यते तर्हि मूर्तद्रव्येषु सत्स्वेव दिग्लिङ्गस्येदमतः पूर्वेण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात्तयोरपि तदाश्रितत्वं स्यात् । तथा चायुक्तमेतदन्यत्र नित्यद्रव्येभ्य इति ॥ किश्च समवायस्यानाश्रितत्वे सम्बन्धरूपतैव न घटते । तथा च प्रयोगः- समवायो न सम्बन्धः । अनाश्रितत्त्वादिगादिवदिति ॥ अत्र समवायस्य धर्मिणः कथंचित्तादात्म्यरूपस्यानेकस्य च परैः प्रतिपन्नत्वाधर्मिग्राहकप्रमाणबाध आश्रयासिद्धिश्च न वाच्येति ॥ तस्याश्रितत्वेऽप्येतदभिधीयते न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयाऽनेकान्त इति सम्बन्धविशेषणम् ॥ अथ संयोगे निबिडशिथिलादिप्रत्ययनानात्वानानात्वं नान्यत्र विपर्ययादिति चेत् न, समवायेऽप्युत्पत्तिमत्वनश्वरत्वात्ययनानात्वस्य सुलभत्वात् ॥ सम्बन्धिभेदाभेदोऽन्यत्रापि समान इति नैकत्रैव पर्यनुयोगो युक्तः ॥ तस्मात्समवायस्य परपरिकल्पितस्य विचारासहत्वान्न तद्वशाद्गुणगुण्यादिष्वभेदप्रतीतिः ॥ अथ भिन्नतिभासादवयवायवयव्यादीनां भेद एवेति चेन्न, भेदप्रतिभासस्याभेदाविरोधात् । घटपटादीनामपि कथञ्चिदभेदोपपत्तेः ॥ सर्वथा प्रतिभासभेदस्यासिद्धेश्च ।। इदमित्याद्यभेदप्रतिभासस्यापि भावात्ततः कथंचिद्भेदाभेदात्मकं द्रव्यपर्यायात्मकं सामान्यविशेषात्मकं च तत्त्वं तीरादर्शिशकुनिन्यायेनायातमित्यलमतिप्रसङ्गेन ॥ इदानीमनेकान्तात्मकवस्तुसमर्थनार्थमेव हेतुद्वयमाहअनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थिति
लक्षणपरिणामेनार्थक्रियोपपत्तेश्चेति ॥ २ ॥ अनुवृत्ताकारो हि गोगौरित्यादिमत्ययः । व्यावृत्ताकारः श्यामः शवल इत्यादिप्रत्ययः । तयोर्गोचरस्तस्य भावस्तत्त्वं तस्मात् । एतेन तिर्यक्सामान्यव्यतिरेकलक्षणविशेषद्वयात्मकं वस्तु साधितम् । पूर्वोत्तराकारयोयथासंख्येन परिहारावाप्ती, ताभ्यां स्थितिः, सैव लक्षणं यस्य, स चासो परिणामश्च, तेनार्थक्रियोपपत्तेश्चेत्यनेन तूर्वतासामान्धपर्यायाख्यविशेषद्वयरूपं वस्तु समर्थितं भवति ।। अथ प्रथमोद्दिष्टसामान्यभेदं दर्शयन्नाह-.
सामान्यं द्वेधा तिर्यगवंताभेदात् ॥ ३ ॥ प्रथमभेदं सोदाहरणमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org