________________
५८
प्रमेयरत्नमाला योरसम्भवादनुपलम्भसाध्यो हि विरोधः, तत्रोपलभ्यमानयोः को विरोधः ॥ यच शीतोष्णस्पर्शयोर्वेति दृष्टान्ततयोक्तं तच्च धूपदहनायेकावयविनः शीतोरणस्पर्शस्वभानस्योपलब्धेरयुक्तमेव ॥ एकस्य चलाचलरकारक्ताहतानावृतादिविरुद्धधर्माणां युगपदुपलब्धेश्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्यमप्यपास्तम् । तयोरेकाधिकरणत्वेन प्रतीतेः । अत्रापि प्रागुक्तनिदर्शनान्येव योद्धव्यानि । यच्चानवस्थानं दूषणं तदपि स्याद्वादिमतानभिज्ञैरेवापादितम् । तन्मतं हि सामान्यविशेषात्मके वस्तुनि सामान्यविशेषावेव भेदः। भेदध्वनिना तयोरेवाभिधानात् । द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेद एकानेकात्मकत्वाद्वस्तुनः।। यदि वा भेदनयप्राधान्येन वस्तुधर्माणामानन्त्यामानवस्था । तथा हि- यत्सामान्यं यश्च विशेषस्तयोरनुवृत्तव्यावृत्ताकारेण भेदस्तयोश्वार्थक्रियाभेदाझेदश्च शक्तिभेदात् । सोऽपि सहकारिभेदादित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था ॥ तथा चोक्तम् । मलक्षतिकरीमाहुरनवस्थां हि क्षणम् । वस्त्वानन्त्येप्यशक्तौ च नानवस्था विचार्यते ॥ १॥ इति ॥ यौ च सङ्करव्यतिकरौ तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहतौ ।। अथ तत्र तथा प्रतिभासनं परस्यापि वस्तुनि तथैव प्रतिभासोऽस्तु तस्य पक्षपाताभावानिर्णीते संशयोऽपि न युक्तः। तस्य चलितप्रतिपत्तिरूपत्वादचलितप्रतिभासे दुर्घटत्वात् । प्रतिपन्ने वस्तुन्यप्रतिपत्तिरित्यतिसाहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोर्गुणगुणिनोः कर्मतद्वतोश्च कथंचिद्भेदाभेदौ प्रतिपादितौ बोद्धव्यौ । अथ समवायवशाद्भिन्नेष्वप्यभेदप्रतीतिरनुपपन्नब्रह्मतुलाख्यज्ञानस्येति चेत् न, तस्यापि ततोऽभिन्नस्य व्यवस्थापयितुमशक्तः । तथा हि- समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यादत्तिमती वा ? वृत्तिमत्वे स्वनैव वृत्त्यन्तरेण वा ? न तावदाद्यः पक्षः समवाये समवायानभ्युपगमात् । पश्चानां समवायित्वमिति वचनात् ॥ वृत्यन्तरकल्पनायां तदपि स्वसम्बन्धिषु वर्तते न वेति कल्पनायां वृत्त्यन्तरपरम्परामाप्तेरनवस्था ॥ वृत्त्यन्तरस्य स्वसंबन्धिषु वृत्त्यन्तरानभ्युपगमानानवस्थेति चेत्, तर्हि समवायेऽपि वृत्त्यन्तरं माभूत् ॥ अथ समवायो न स्वाश्रयवृत्तिरङ्गीक्रियते, तर्हि पएणामाश्रितत्वमिति ग्रन्थो विरुध्यते ॥ अथ समवायिषु सत्स्वेव समवाय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org