________________
प्रमेयरत्नमाला श्रेयान् ॥ नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति, तयोरन्योन्यभेदे द्वयोरन्यतरस्यापि व्यवस्थापयितुमशक्तेः ॥ तथा हि-विशेषास्तावत् द्रव्यगुणकर्मात्मनः सामान्यं तु परापरभेदाद्विविधं, तत्र परसामान्यात्सत्तालक्षणाद्विशेषाणां भेदे सत्त्वापत्तिरिति । तथाच प्रयोगः। द्रव्यगुणकर्माण्यसद्रपाणि सत्त्वादत्यन्तं भिन्नत्वात्मागभावादिवदिति ॥ न सामान्यविशेषसमवायैर्व्यभिचारः। तत्र स्वरूपसत्त्वस्याभिन्नस्य परैरभ्युपगमात् ॥ ननु द्रव्यादीनां प्रमाणोपपन्नत्वे धर्मिग्राहकप्रमाणवाधितो हेतुर्येन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तत्सत्त्वमपीति ॥ अथ 'न प्रमाणप्रतिपन्ना द्रव्यादयस्तर्हि हेतोराश्रयासिद्धिरिति' तदयुक्तम् । प्रसङ्गसाधनात्मागभावादौ हि सत्त्वाद्भेदोऽसत्त्वेन व्याप्त उपलभ्यते ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तरीयक इति प्रसङ्गसाधने अस्य दोषस्याभावात् ॥ एतेन द्रव्यादीनामप्यद्रव्यादित्वं द्रव्यत्वादेर्भेदे चिन्तितं बोद्धव्यम् । कथं वा षण्णी पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था ? द्रव्यस्य हि द्रव्यमिति व्यपदेशस्य द्रव्यत्वाभिसम्बन्धाद्विधाने ततः पूर्व द्रव्यस्वरूपं किश्चिद्वाच्यं, येन सह द्रव्यत्वाभिसम्बन्धः स्यात् ॥ द्रव्यमेव स्वरूपमिति चेन्न, तद्व्यपदेशस्य द्रव्यत्वाभिसम्बन्धनिबन्धनतया स्वरूपत्वायोगात् ॥ सत्त्वं निजं रूपमिति चेन्न, तस्यापि सत्तासम्बन्धादेव तव्यपदेशकरणात् ॥ एवं गुणादिष्वपि वाच्यम् ॥ केवलं सामान्यविशेषसमवायानामेव स्वरूपसत्त्वेन तथाव्यपदेशोपपत्तेस्तत्रयव्यवस्थैव स्यात् ॥ ननु जीवादिपदार्थानां सामान्यविशेषात्मकत्वं स्याद्वादिभिरभिधीयते तयोश्च वस्तुनोर्भेदाभेदाविति ॥ तौ च विरोधादिदोषोपनिपातान्नैकत्र सम्भविनाविति ॥ तथाहि-भेदाभेदयोविधिनिषेधयोरेकत्राभिन्ने वस्तुन्यसम्भवः शीतोष्णस्पर्शयोर्वेति ॥ भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् । यमात्मानं पुरोधाय भेदो यं च समाश्रित्याभेदः तावास्मानौ भिन्नौ चाभिन्नौ च तत्रापि तथा परिकल्पनादनवस्था । येन रूपेण भेदस्तेन भेदश्चाभेदश्चेति सङ्करः । येन भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः। भेदाभेदात्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः । ततश्चापतिपत्तिस्ततोऽभावः । इत्यनैकान्तात्मकमपि न सोस्थ्यमाभजतीति केचित् । तेऽपि न पातीतिकवादिनः। विरोधस्य प्रतीयमान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org