________________
प्रमेयरत्नमाला नियमेन पर्ययनयस्य । नोदेति नो विनश्यति भावनया लिङ्गितो नित्यम् ॥ १॥ इति वचनात् ॥ नहि निरन्वयविनाशे पूर्वक्षणस्य ततो मृताच्छिखिनः केकायितस्येवोत्तरक्षणस्योत्पत्तिर्घटते । द्रव्यरूपेण कथश्चिदत्यक्तरूपस्यापि सम्भवात् न सर्वथा भावानां विनाशस्वभावत्वं युक्तम् ॥ न च द्रव्यरूपस्य गृहीतुमशक्यत्वादभावस्तद्ग्रहणोपायस्य प्रत्यभिज्ञानस्य बहुलमुपलम्भात्तत्मामाण्यस्य च मागेवोक्तित्वादुत्तरकार्योत्पत्त्यन्थानुपपत्तेश्च सिद्धत्वात् ।। यच्चान्यत्साधनं सत्त्वाख्यं तदपि विपक्षवत्स्वपक्षेऽपि समानत्वान्न साध्यसिद्धिनिबन्धनम् ।। तथा हि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रमयोगपद्याभ्यां ते च तणिकानिवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सा च निवर्तमाना स्वव्याप्यं सत्त्वमिति नित्यस्येव क्षणिकस्यापि खरविषाणवदसत्त्वमिति न तत्र सत्त्वव्यवस्था ॥ न च क्षणिकस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्यासम्भवात् ॥ अवस्थितस्यैकस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्चाभिधीयते ॥ न च तणिके सोऽस्ति, 'यो यत्रैव स तत्रैव यो यदैव तदैव सः॥ न देशकालयोयोप्तिर्भावानामिह विद्यत' इति स्वयमेवामिधानात् ॥ न च पूर्वोत्तरक्षणानामेकसन्तानापेक्षया क्रमः सम्भवति, सन्तानस्य वास्तवत्वे तस्यापि क्षणिकत्वेन क्रमायोगादक्षणिकत्वेऽपि वास्तवत्वे तेनैव सत्त्वादिसाधनमनैकान्तिकम् । अवास्तवत्वे न तदपेतः क्रमो युक्त इति ॥ नापि योगपद्येन तत्रार्थक्रिया सम्भवति, युगपदेकेन स्वभावन नानाकार्यकरणे तत्कायकत्वं स्यात् ।। नानास्वभावकल्पनायां ते स्वभावास्तेन व्यापनीयाः। तत्रैकेन स्वभावेन तद्वयाप्तौ तेषामेकरूपता, नानास्वभावेन चेदनवस्था ॥ अथैकत्रैकस्योपादानभाव एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाथै वा माभूत् ।। अक्रमात क्रमिणामनुत्पत्तेनैवमिति चेदेकानंशकारणाधु गपदनेककारणसाध्यानेककार्यविरोधादक्रमिणोऽपि न क्षणिकस्य कार्यकारित्वमिति । किश्च भवत्पने सतोऽसतो वा कार्यकारित्वम् ? सतः कार्यकर्तृत्वे सकलकालकलाव्यापिक्षणानामेकक्षणवृत्तिप्रसङ्गः। द्वितीयपक्षे खरविषाणादेरपि कार्यकारित्वमसत्त्वाविशेषात् सत्त्वलक्षणस्य व्याभिचारश्च, तस्मान्न विशेषकान्तपक्षः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org