________________
प्रमेयरत्नमाला तथा हि यत्सत्तत्सर्वमेकक्षणस्थितिस्वभावं यथा घटः सन्तश्चामी भावा इति ॥ अथवा सत्त्वमेव विपक्षे बाधकप्रमाणवलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनःक्षणिकत्वमनुमापयति । तथाहि सत्त्वमर्थक्रियया व्याप्यम् । अर्थक्रिया च क्रमयोगपद्याभ्यां, ते च नित्यान्निवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सापि स्वव्याप्यं सत्वमिति, नित्यस्य क्रमयोगपद्याभ्यामक्रियाविरोधात्सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति ॥ नहि नित्यस्य क्रमेण युगपद्वा सा सम्भवति । नित्यस्यैकेनैव स्वभावेन पूर्वापरकालभाविकार्यद्वयं कुर्वतः कार्याभेदकत्वात्तस्यैकस्वभावत्वात् । तथापि कार्यनानात्वे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृशमेकमेव किश्चित्कारणं कल्पनीयं, येनैकस्वभावेनैकेनैव चराचरमुत्पद्यत इति ॥ अथ स्वभावनानात्वमेव तस्य कार्यभेदादिष्यत इति चेत्तर्हि, ते स्वभावास्तस्य सर्वदा सम्भविनस्तदा कार्यसाङ्कर्यम् । नो चेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात्तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात्सैव कार्याणां युगपत्माप्तिः।। सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावान्नोक्तदोष इति चेत्तदपि न साधुसङ्गतम् । समर्थस्य नित्यस्य परापेक्षायोगात् ॥ तैः सामर्थ्यकरणे नित्यताहानिः ॥ तस्माद्भिन्नमेव सामर्थ्य तैर्विधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिंचित्करमेव स्यात् । सहकारिजनितसामर्थ्यस्यैव कार्यकारित्वात्तत्सम्बन्धात्तस्यापि कार्यकारित्वे तत्सम्बन्धस्यैकस्वभावत्वे सामर्थ्य नानात्वाभावान्न कार्यभेदः । अनेकस्वभावत्वे क्रमवत्वे च कार्यवत्तस्यापि साकर्यमिति सर्वमावर्तत इति चक्रकमसङ्गः ॥ तस्मान्न क्रमेण कार्यकारित्वं नित्यस्य । नापि युगपत् अशेषकार्याणां युगपदुत्पत्ती द्वितीयक्षणे कार्याकरणादनर्थक्रियाकारित्वेनावस्तुत्वमसंगादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः-सजातीयेतरव्यावृत्तात्मनां विशेषाणामनशानां ग्राहकस्य प्रमाणस्याभावात् । प्रत्यक्षस्य स्थिरस्थूलसाधारणाकारवस्तुग्राहकत्वेन निरंशवस्तुग्रहणायोगात् । न हि परमाणवः परस्परासंबद्धाश्चक्षुरादिबुद्धौ प्रतिभान्ति तथा सत्यविवादप्रसंगात् ॥ अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्तु विकल्पवासनाबलादान्तरादन्तरालानुपलम्भलक्षणाबाह्याच्चाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति ॥ स च तदाकारेणानुर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org