________________
प्रमेयरत्नमाला विशेषा एव तत्त्वं तेषामसमानेतरविशेषेभ्योऽशेषात्मनो विश्लेषात्मकत्वात्सामान्यस्यैकस्यानेकत्र व्याप्त्या वर्तमानस्य सम्भवाभावाच ॥ तस्यैकव्याक्तिनिष्ठस्य सामस्त्येनोपलब्धस्य तथैव व्यक्त्यन्तरेऽनुपलम्भप्रसङ्गात् ॥ उपलम्भे वा तन्नानात्वापत्तर्युगपत् भिन्नदेशतया सामस्त्येनोपलब्धस्तव्याक्तिवदन्यथा व्यक्तियोऽपि भिन्ना माभूवानिति ॥ ततो बुद्ध्यभेद एव सामान्यम् । तदुक्तम्-एकत्र दृष्टो भावो हि कचिन्नान्यत्र दृश्यते । तस्मान्न भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः ॥ १ ॥ इति ॥ ते च विशेषाः परस्परासम्बद्धा एव, तत्सम्बन्धस्य विचार्यमाणस्यायोगात् ॥ एकदेशेन सम्बन्धे अणुषटकेन युगपद्योगादणोः षडंशतापत्तेः ॥ सर्वात्मनाभिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः ॥ अवयविनिषेधाचासम्बद्धत्वमेषामुपपद्यत एव ॥ तनिषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि अवयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमेकदेशेन वर्तते सर्वात्मना वा ? एकदेशेन वृत्ताववयवान्तरप्रसङ्गः । तत्राप्येकदेशान्तरेणावयविनो वृत्तावनवस्था । सर्वात्मना वर्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्तेत, आहोस्विदेकरूपेणेति ? प्रथमपक्षे अवयविबहुत्वापत्तिः ॥ द्वितीयपक्षे तु अवयवानामेकरूपत्वापत्तिरिति । प्रत्येकं परिसमाप्त्या वृत्तावप्यवयविबहुत्वमिति ॥ तथा यत् दृश्यं सन्नोपलभ्यते तन्नास्त्येव यथा गगनेन्दीवरं नोपलभ्यते चावयवेष्ववयवीति ॥ तथा यदग्रहे यबुद्ध्याभवस्तत्ततो नार्थान्तरम् । यथा वृक्षाग्रहे वनमिति ॥ ततश्च निरंशा एवान्योन्यासंस्पर्शिणो रूपादिपरमारणवस्ते च एकक्षणस्थायिनो न नित्या, विनाशं प्रत्यन्यानपेक्षणात् ॥ प्रयोगश्च यो यद्भावं प्रत्यन्यानपेतः स तत्स्वभावनियतो यथान्त्या कारणसामग्री स्वकार्ये ॥ नाशो हि मुद्गरादिना क्रियमाणस्ततो भिन्नोऽभिन्नो वा क्रियते ? भिन्नस्य करणे घटस्य स्थितिरेव स्यात् ॥ अथ विनाशसम्बन्धानष्ट इति व्यपदेश इति चेत्, भावाभावयोः कः सम्बन्धः १ न तावत्तादात्म्यं तयोर्भेदात् । नापि तदुत्पत्तिरभावस्य कार्याधारत्वाघटनात् । अभिनस्य करणे घटादिरेव कृतः स्यात् । तस्य च प्रागेव निष्पन्नत्वाद्यर्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति, विनाशस्वभावनियतत्वं साधयत्येव ॥ सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेषामात्मादीनां विमत्यधिकरणभावापन्नानां सत्त्वादिना साधनेन तदृष्टान्ताद्भवत्येव क्षणस्थितिस्वभावत्वम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org