SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ (६) मेघस्तथा जेसल-मोहणौ च वेडूरितीमे तनया नयाढ्याः ॥ ५ ॥ तन्मध्ये जेशलस्यासन् विशिष्टाः (७) सूनवस्त्रयः । आंब: प्राच्चोपरो जींदो मूलराजस्तृतीयकः ॥ ६ ॥ तत्र श्रीजिनोदयसूरिप्रवरादेशसलिलेशके(८) शव: संवत् १४२५ वर्षे श्रीदेवराजपुरकृतसविस्तरतीर्थयात्रोत्सवस्तथा संवत् १४२७ वर्षे श्रीजिनोदयसूरि(९) संसूत्रितप्रतिष्ठोत्सवांभोदोदकपल्लवितकमनीयकीर्त्तिवल्लीवलयः सं० १४३६ वर्षे श्रीजिनराजसूरिसदु(१०) पदेशमकरंदमापीय संजातसंघपतिपदवीको राजहंस इव सं० आंबाक: श्रीशत्रुंजयोज्जयंताचलादि(११) तीर्थमानसरो यात्रां चकृवान् । तथा मोहणस्य पुनः पुत्राः कीहट: पासदत्तकः । देल्हो धन्नश्च चत्वारश्च(१२) तुर्वर्गा इवांगिनः॥ १ ॥ शिवराजो महीराजो जातावाम्रसुतावुभौ । मूलराजभवश्चास्ति सहस्रराजनामकः (१३) ॥ २ ॥ तथा तत्र श्री जिनराजसूरिसदाज्ञासरसीहंसेन संवत् १४४९ वर्षे श्री शत्रुंजयगिरिनारतीर्थयात्रानिरमा(१४) पि सं० कीहटेनेति । धामा कान्हा जगन्मल्ला इत्येते कीहटांगजाः । वीरदत्तश्च विमलदत्त - कर्मण हेमकाः ॥ १ ॥ ठा (१५) कुरसिंह इत्येते पासदत्तसुता मताः ॥ २ ॥ देल्हजौ साधुजीवंदकुंपौ धन्नांगजाः पुनः। जगपालस्तथा नाथूरमर (१६) श्चेति विश्रुताः ॥ ३ ॥ तथा ॥ भीमसिंहस्य पुत्रोभूल्लाषणस्तस्य मम्मणः । जयसिंहो नरसिंहो माम्मणी श्रेष्ठिना (१७) वुभौ ॥ ४॥ तत्र स्तो जयसिंहस्य रूपाघिल्हाभिधौ सुतौ । नारसिंही पुनर्भोजो हरिराजश्च राजतः॥ ५ ॥ इत्थं पुरु (१८) षरत्नौघाकुलं श्रेष्ठिकुलं कलौ । जयत्यधर्मविच्छेदि निःकलंकमदः कलं ॥ १६ ॥ इतश्च । श्रीवीरतीर्थे श्रीसु (१९) धर्मस्वामिवंशे युगप्रधान श्रीजिनदत्तसूर्यन्वये । श्रीजिनकुशलसूरि-श्रीजिनपद्मसूरि-श्रीजिनलब्धिसू(२०) रि-श्रीजिनचंद्रसूरि-श्रीजिनोदयसूरयो जाताः । तत्पट्टे श्रीजिनराजसूरय उदैषुः। अथ तत्पट्टे श्रीखरत(२१) रगणश्रृंगारसाराः कृत श्रीपूर्वदेशविहारा: श्रीजिनवर्द्धनसूरयो जयंति । अथ श्रीजेशलमेरौ श्रीलक्ष्म(२२) णराजराज्ये विजयिनि सं० १४७३ वर्षे चैत्रसुदि १५ दिने तै: श्रीजिनवर्द्धनसूरिभिः प्रागुक्तान्वयास्ते (२३) श्रेष्ठिधना जयसिंहनरसिंहधामा: समुदायकारितप्रासादप्रतिष्ठया सह जिनबिंबप्रतिष्ठां कारितवं(२४) त इति। वा० जयसागरगणिविरचिता प्रशस्तिरियमुत्कीर्णा सूत्रधार - हापाकेनेति नंदतात्॥ पुण्यार्थं (१४८) परिकर - लेख : सं० १४७३ वर्षे चैत्र सुदि १५ दिने साधुशाखीय सा० ''देवबिंब कारितं प्रतिष्ठितं ( १४९ ) अजितनाथ: सं० १४७३ वर्षे चैत्र सु० १५ वा० सता पुत्र पांचाकेन पुत्र सिवराज - महिराजादियुतेन श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं खरतर श्रीजिनवर्द्धनसूरिभिः ॥ १४८. पार्श्वनाथ जिनालय, जैसलमेर : ना० बी०, लेखांक २६५८ १४९. चन्द्रप्रभ जिनालय, जैसलमेर : पू० जै०, भाग ३, Jain Education International लेखांक २२८९ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: 'सा० जइरा मातृ रामी 'श्रीजिनवर्द्धन 1 For Personal & Private Use Only (३५) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy