SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ खण्डेल्लवंश्योऽग्रजमानदेवः, पाद्मप्रभिः प्रह्लक इत्युदात्तः। विचार्यबुद्ध्या जिनधर्मरत्नं, जग्राह यः कुग्रहनिग्रहीता ॥ ६२ ॥ श्रीपल्लिकाविश्रुतशालिभद्र-सूनुः समग्राग्र्यगुणाधिवासः । साधारणः साधुसधर्मचारि-समर्थसामर्थ्यतया यथार्थः॥ ६३ ॥ ईदृग्गुणाढ्यः खलु सढकोऽपि-श्रीपल्लिकेन्दोर्ऋषभस्य पुत्रः । यः प्राप्तुमिच्छुः पदमक्षरं स्वे, चैत्यालयेऽलेखयदक्षराणि ॥ ६४॥ ध्यात्वा विशेषत इमे समुदायमध्याम धर्मविधिबन्धुरवृद्धबोधाः। क्षेत्रप्रकीर्णविभवा विधिचैत्यवेश्मा-[धी]शाज्ञया किल चिकारयिषां बभूवुः॥ ६५ ॥ यतः - क्षुद्राचीर्णकुबोधकुग्रहहते स्वं धार्मिकं तन्वति, द्विष्टानिष्टनिकृष्टधृष्टमनसि क्लिष्टे जने भूयसि। तादृग्लोकपरिग्रहेण निबिडद्वेषोग्ररागग्रह ___ ग्रस्तैस्तद्गुरुसात्कृतेषु च जिनावासेषु भूमाधुना ॥ ६६ ॥ तत्त्वद्वेषविशेष एष यदसन्मार्गे प्रवृत्तिः सदा, सेयं धर्मविरोधबोधविधुतिर्यत्सत्पथे साम्यधीः। तस्मात्सत्पथमुद्विभावयिषुभिः कृत्यं कृतं स्यादिति, श्रीवीरास्पदमाप्तसम्मतमिदं ते कारयांचक्रिरे॥ ६७॥ तेने तेनेह कीर्तिः शशि[रुचि]रुचिराऽदारि दारिद्रमुद्रा, चक्रे चक्रेश्वरत्वं स्ववशमुपचयं प्रापि पापप्रपञ्चः। सत्यङ्कारः सुरेन्द्र(श्रियमुपदददे)पत्रलाऽलेखि मोक्षे, कामं कल्याणभाजा विधिजिनसदनं कारितं येन भक्त्या॥ ६८ ॥ इति सुजनसमाजैः साञ्जसैनंद्यमाना, द्विजवरनृपलोकैः सम्यगुत्साह्यमानाः। शिवपथरथरूपं साधयामासुरेते, जिनगृहमिदमेतत् कीर्तिकूटोत्कटश्रि॥ ६९ ।। प्रारम्भादपि चात्र विस्तृतशिलासंघट्टपिष्टा इव, क्लेशा नेशुरमन्दवाद्यनिनदोद्विग्नेन भग्ना विपत् । भव्यानां शिखराग्रचञ्चल[चल]द्वातक्वणत्किङ्गिणी क्वाणेन ध्वजतर्जनीचलनतश्चागाद्विभीतेव भीः॥ ७० ॥ अस्मिन्नस्मरवैरबन्धुरभवत्कल्याणकाद्युत्सव प्रोद्भूतोद्धरधूपधूमविसरव्याजेन भव्याङ्गिनाम्। (८) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy