SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धृतासिरेकोऽपि सदैव सोऽरीन्-द्विधा व्यधाद् यत्र रणाजिरे यान्। पञ्चत्वमप्याप्य तदैव चित्रं, त एव तत्र त्रिदशत्वमीयुः॥ २५ ॥ तत्कालोन्मीलदन्तर्मदवशमुकुलं लोलनेत्रोत्पलानि, द्रागुद्यद्रागवेगोद्गतरतिजलतिम्यन्नितम्बाम्बराणि। सद्यः स्वेदोदवाहस्नपितजडतनूत्फुल्लसत्कम्पशीर्य न्नीवीबन्धानि जजुर्विजितरतिपतिं वीक्ष्य यं यौवतानि ॥ २६ ॥ अपरितिमिताः कण्ठे हारावरोधविधानतः, समुदितशुचोऽलंकारार्हाः सदानविलासिनः। अवनिमवनिप्रापुर्यत्र द्विषः सुहृदोऽपि च, स्फुटकुपतिताः कान्तारागाश्रयाः परमश्रियम् ॥ २७ ॥ सीत्काराः कण्टकार्त्या कुचकलशतटे साध्वसात्कम्पसम्पत्, त्रासायासप्रणाशान्निवसनकबरीलंसनास्तद्वदेव। रोमाञ्चः शीतवातैः प्रहणनमुरसः शश्वदस्तोकशोकात्, कान्तारेपीत्यभूवन् यदरिमृगदृशां केलिलीलाविलासाः॥ २८॥ दोर्दण्डचण्डिमवशीकृतमेदपाट-क्षोणीललाटतिलकोपममस्ति तस्य। श्रीचित्रकूटगिरिदुर्गमुदग्रकूट-कोटीविटङ्कितसुघट्टितपुष्पदन्तम्॥ २९ ॥ यत्रेन्दुद्युतिचौरपौरसुदृशो गम्भीरनाभ्यन्तर ___ भ्राम्यत्तोयरयोच्छलत्कलकुहूत्कारभ्रमत्कुक्कुहम्। व्यातेनुः स्मितनेत्रवक्त्रमिषतो गाम्भीरमम्भोमिलत्, फुल्लेन्दीवरपङ्कजं किल[वपुः?]क्रीडाक्षणेषु क्षणम्॥ ३०॥ , व्यक्तं ...... प्रतिरतिगृहं गातु सम्भोगभङ्गि-व्यासक्तानां त्रिलयनिपुणप्रौढ़पण्याङ्गनानाम्। कामाह्वानध्वनिमिव रताघातसीत्कारमिश्र, लोको यस्मिन्ननिशमसृणोन्म मञ्जीरसिञ्जाम् ॥ ३१ ॥ शश्वद्देहा[भा] वस्थितगिरितनया कोपशङ्काकुलेन त्र्यक्षेणावीक्षितानां जितसुरसदृशां यत्र लीलावतीनाम् । भ्रूवक्रे चापलेखां जघनभुवि रतिं दृग्विलासेषु वालान्, धृत्वा शृंगारसारं कुचकलशतटे निर्वृतोऽभून्मनोभूः॥ ३२ ॥ प्रवालमणिरुच्छलच्छविरुचौ कपोलस्थले, गले च मणिमालिका विशदबिन्दुमालालिके। शशप्लुतकमद्धरे स्तनभरे विडू(?)रित्युदै दनंगरतिषु..................." यत्र वामभ्रुवा॥ ३३ ॥ शुभ्रादभ्रस्फुटाभ्रङ्कषशिखरतटीकोटिसंघातघात प्राज्यज्योतिर्विमानत्रुटितमणिशिलाखण्डपिण्डभ्रमाणाम्। (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy