SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अस्खलितसुललितगतिर्दानप्रसरप्रसादितजनालि: । गुरुगिरि निबद्धरागः, स्फुटमभवदनेकपो भुवि यः ॥ १६ ॥ नीलत्तालतमालपत्रविशदश्यामासिपत्रप्रभा पुङ्खैर्नीलपटावगुण्ठनमिव प्रावृत्य विष्वक्कृतैः । युद्धेषूद्धतवैरिवीरविसरं मुक्त्वानुरागग्रहा वेशाद द्रागभिसारिकेव विजयश्रीः शिश्रिये यं स्वयम् ॥ १७ ॥ यत्सैन्यैरेव लुण्ठत्तुरगखरखुराग्रक्षतक्षोणिपृष्ठप्रोत्सर्पत्पांशुपुञ्जस्थगितसुरपथे प्रस्थिते दिग्जयाय। यद्वीक्षा कौतुकिन्योऽनिमिषमृगदृशो विस्मयस्फारिताक्ष्यो, व्योम्नि व्यासर्पि रेणूत्करकलि "पिप्रियु बिभ्रज्जागरमादधद्विजयतां धैर्यं समुन्मूलयन्, कुर्वन् गाढमनोज्वरं प्रतिकलं निघ्नन् विवेकोदयम् । तन्वानस्तनुकम्पसम्पदमलं लज्जां समुज्जासयत्, यः स्त्रीणां द्विषतां च पर्णशयने तुल्यं स्थितिश्चेतसि ॥ १९ ॥ शस्त्रोद्भिन्नमहेभकुम्भर्विगलत्कीलालकुल्याशता, श्रोतोवेगवहन्मृतोद्भटभट श्रेणीशिरः संकटाः । चञ्चच्चञ्चलचञ्चु विचरत्" ''कङ्करङ्कोत्करा कीर्णा : : काककुलाकुला रणभुवः प्रोचुर्यदुज्जृम्भितम् ॥ २० ॥ स्वकायकान्त्या जितजातरूपः, पुरूरवः पार्थपृथुस्वरूपः । साम्राज्यमज्यानि ततोऽनुरूपः, समासदच्छ्रीनरवर्मभूपः ॥ २१ ॥ यद् `यात्रासु प्रसर्पद्बहलवरभ[टो ] द्भूतधूलीविताने, रुन्धाने व्योमसद्यो मनसि घनघटाटोपमारोपयद्भिः । Jain Education International 'श्च ॥ १८ ॥ स्फूर्जत्पर्जन्यगर्जोर्जितजयपटहध्वानमाकर्ण्य नूनं, नेशे कुत्रापि देशे भयतरल [लस ]न्मानसं राजहंसैः ॥ २२ ॥ प्रणयिजनकल्पवृक्षो हरिचन्दनकान्तिरमलसंतानः । मन्दारसुरतरुचितवपुरपि योऽपारिजातोऽभूत् ॥ २३ ॥ सौम्यः पूर्णकलामयः कविगुरुर्भूनन्दनोऽत्यूर्जित स्फूर्जद्वीर्यशिखी विभाकरवपुर्भास्वत्सुतः सत्तमः। शत्रूणामनवग्रहप्रकृतिरप्याश्चर्यचर्याकरः, श्रीमानित्थमहो नवग्रहमयीमूर्तिर्बिभर्त्ति स्म यः ॥ २४ ॥ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह : For Personal & Private Use Only (३) www.jalnelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy