SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ क्लिष्टाः शिष्टैरजुष्टाः स्खलितपदभृतो प्रष्टभावानुभावाः, यस्यालङ्कारमुक्ताः कुकविगिर इवाख्यातिमापुर्विपक्षाः॥ ७॥ यश्चकार कलिं भूयः कृतप्रतिकृतिं बलात्। चक्रे च द्वापरं नासावत्रेतायां जयश्रियि ॥८॥ स्थिराशोकः पृथ्वीतलमदनवारः सुकरजः, शमीश्रीपुन्नागः प्रियकलवलीवंशतिलकः। जयारम्भारोही सरलसहकारोऽर्जुनरुचि-र्य इत्थं स त्यागप्रकृतिरपि नाधत्त विटपान्॥९॥ उत्सर्पद्दर्पसर्पत्सुभटभरकरोद्भूतधौतासिधारा संघट्टस्पष्टनिर्यज्ज्वलदनलकणव्याप्तरोदोन्तरालः। संख्ये संसक्तमुक्ताफलनिकरनिभस्वेदवार्बिन्दुसीते, यद्वक्षोऽनल्पतल्पे दितदवथुरिवाशे सुस्था जयश्रीः॥ १० ॥ वेदाभ्यासजडं पुराणपुरुषं हित्वा गुणान्वेषिणी, शश्चद् यद्वदनाम्बुजं ध्रुवमशेश्रीयिष्ट वाग्देवता। तर्कव्याकरणेतिहासगतिणदित्यद्भुतं वाङ्मयं, स्रष्टेवाभुजदन्यथा कथमयं निःशेषमिच्छावशात् ॥ ११ ॥ नम्रानेकक्षितीशोद्भटमुकुटतटीकोटिकाषोज्ज्वलांहे लक्ष्मीर्यस्याक्षिपद्मं ध्रुवमखिलगुणैः सार्द्धमेवाध्युवास। लोकन्यक्कारहेतावधमतमजनेऽप्याशु यदृष्टिपाता .................नकस्मादहमहमिकया सद्गुणाश्च श्रियश्च ॥ १२ ।। कर्णाटीकिलकिञ्चितक्षतिकृतः कामार्तजाताङ्गना, तुङ्गानङ्गनिषङ्गभङ्गगुरवो गौडीमदच्छेदिनः। लाटीकुट्टमितान्तकाः समभवन्नाभीरनाभीभवद् भूयो विभ्रमभेदिनो विजयिनो यस्य प्रयाणोद्यमाः॥ १३ ॥ नित्यानन्ददशान्वितो नवशशिच्छायोऽष्टदिङ्नायकः, सप्ताश्वप्रतिमाऽरिषट्कविजयी पञ्चाङ्गमन्त्रोद्यमी। चातुर्वर्ण्यविभुः शुभोदयफलाभिव्यक्तशक्तित्रयः, श्रीमान्यः समिति द्विधा दधदरीनेकः क्षितीशोऽभवत् ॥ १४ ॥ सर्वो[:]पतिगर्वखर्वणचणे दैवात्प्रतीपोल्बणे, न्यग्भूते पर[सर्व] पार्थिकवगणे मग्ना विपक्षार्णवे। येनैकेन महावराहवपुषा मालव्यभूरुद्धृता, कृष्णेनेव ततः स सत्य उदयादित्योऽभवद् भूपतिः॥ १५ ॥ (२) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy