________________
इतश्च
यत्रार्हद्वेश्मपंक्तिस्फुरितशुचिरुचिस्फारहैमाण्डकानां,
श्रेणिर्निश्रेणिकेव त्रिदिवशिवपदप्राप्तये भक्तिभाजाम् ॥ ३४ ॥ श्रद्धाबुद्धिविशुद्धबन्धुरविधिप्रस्तावक श्रावक
स्तोमे शान्तमतौ वितन्वति यथाऽर्हषड्विधावश्यकम् । तद्वर्णोज्ज्वलवी [च] गर्भनिनदैर्मन्त्रैरिव त्रासितं,
सम्यक्शुश्रुवुषामनश्यदशुभं यत्राङ्गिनां दूरतः ॥ ३५ ॥ तत्राम्बक-केहिल-वर्द्धमानदेवप्रमुखप्रचुरवणिजाम्। सद्धर्मकर्मनिर्मितिमान् वसति स्म समुदायः ॥ ३६ ॥ दाक्षिण्यं निर्व्यपेक्षं कृतविविधबुधाश्चर्यमौदार्यमार्यं,
शुद्ध बोधः प्रियत्वं जगति निरुपमं पापगर्हा प्रवर्हा । शुश्रूषा विश्वभूषा जिनवचसि गुरुर्धर्मरागोपरागः,
प्रायः सम्यक्त्वलिङ्गं गुणगण इति यस्मिन् समालक्षि तज्ञैः ॥ ३७ ॥ तृष्णाकृष्णाहिताक्षाः कृतविलसदसदृष्टिसम्मोह'''''न्,
प्रारोहोन्ता ( ? ) हदाह : प्रचितभवदवज्वालजालाम्बुवाहः । तथ्यार्हद्धर्मपथ्यारुचिंविजिदगदः क्रोधकण्डूतिभूति
प्रोद्धूतिस्फीतवातः प्रतिसमयमदीपिष्ट यद्दर्शनात् सः ॥ ३८ ॥
नृचकोरदयितमपमलमदोषमतमोऽनिरस्तसद्वृत्तम्। नानीककृतविकासोदयमपरं चान्द्रमस्ति कुलम् ॥ ३९ ॥ तस्मिन्बुधोऽभवदसङ्गविहारवर्ती, सूरिर्जिनेश्वर इति प्रथितोदय श्रीः ।
श्रीवर्द्धमानगुरुदेवमतानुसारी, हारोऽभवन् हृदि सदा गिरिदेवतायाः॥ ४० ॥
सामाचार्यं च सत्यं दशविधमनिशं साधुधर्मञ्च बिभ्र
तत्त्वानि ब्रह्मगुप्तनवविधविदुर: प्राणभाजश्च रक्षन् । हित्वाष्टौ दुष्टशत्रूनिव सपदि मदान् कामभेदान् च पञ्च,
भव्येभ्यो वस्तुभङ्गान्विनयमथ नयान् सप्तधाऽदीदिपद्यः ॥ ४१ ॥ क्रूराकस्मिकभस्मकग्रहवशेऽस्मिन् दुःखमादोषतो,
बाढं मौढ्यदृढाढ्यदूढ्यकुगुरुग्रस्ते विहस्ते जने । मध्येराजसभं जिनागमपथं प्रोद्भाव्य भव्ये हितं,
Jain Education International
सर्वत्रास्खलितं विहारमकरोत् संविग्नवर्गस्य यः ॥ ४२ ॥
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
(५)
www.jainelibrary.org