________________
(१२०५) वाडीपार्श्वनाथ-विधिचैत्य-प्रशस्ति-शिलालेख: स्वस्ति श्रीवाडीपार्श्वजिनसंघचैत्यकाराय। लक्ष्मीमुदयं श्रेयः पत्तनसंस्थं करोतु सदा। श्रीवाडीपुरपार्श्वनाथचैत्ये श्रीबृहत्खरतरगुरुपट्टावलीलिखनपूर्वं प्रशस्तिर्लिख्यते। श्रीअहँ नत्वा। ..
पातिशाहि श्रीअकब्बरराज्ये श्रीविक्रमनृपसंवत्संवते १६५१ मार्गशीर्षसितनवमीदिने सोमवारे पूर्वभद्रपदनक्षत्रे शुभवेलायां आदिप्रारंभः।
शासनाधीशश्रीमहावीरस्वामिपटाविच्छिन्नपरंपरायां उद्यतविहारोद्यतश्रीउद्योतनसरि। तत्पप्रभाकरप्रवरविमलदंडनायककारितार्बुदाचलवसतिप्रतिष्ठापक-श्रीसीमंधरस्वामिशोधितसूरिमंत्राराधक-श्रीवर्धमानसूरि। तत्पट्ट०अणहिल्लपत्तनाधीशदुर्लभराजसंसच्चैत्यवासिपक्षविक्षेपाशीत्यधिकदशशतसंवत्सरप्राप्तखरतरबिरुदश्रीजिनेश्वरसूरि । तत्पट्ट० श्रीजिनचंद्रसूरि । तत्पट्ट० शासनदेव्युपदेशप्रकटितदुष्टकुष्टप्रमाथहेतुस्तंभनपार्श्वनाथनवांगीवृत्त्याद्येनकशास्रकरणप्राप्तप्रतिष्ठ-श्रीअभयदेवसूरि । तत्पट्ट ० लेखरूपद्वादशकुलकप्रेषणप्रतिबोधितवागडदेशीयदशसहस्रश्रावक-सुविहितकठिनक्रियाकरण-पिंडविशुद्ध्यादिप्रकरणप्ररूपणजिनशासनप्रभावक-श्रीजिनवल्लभसूरि। तत्पट्ट० स्वशक्तिवशीकृतचतुःषष्टियोगिनीचक्र-द्विपंचाशत्वीरसिंधुदेशीयपीर-अंबड श्रावककरलिखितस्वर्णाक्षरवाचनाविर्भूतयुगप्रधानपदवीसमलंकृत-पंचनदीसाधकश्रीजिनदत्तसूरि। तत्पट्ट० श्रीमाल-ओसवालादिप्रधान-श्रीमहतीयानप्रतिबोधक-नरमणिमंडितभालस्थलश्रीजिनचंद्रसूरि । तत्पट्ट० भंडारिनेमिचंद्रपरीक्षित-प्रबोधोदयादिग्रंथरूपषट्त्रिंशद्वादसाधितविधिपक्षश्रीजिनपतिसूरि। तत्पट्ट० लाडोल-वीजापुरप्रतिष्ठित श्रीशांति-वीरविधिचैत्य-श्रीजिनेश्वरसूरि। तत्पट्ट० श्रीजिनप्रबोधसूरि। तत्पट्ट० राजचतुष्टयप्रतिबोधोबुद्धराजगच्छसंज्ञाशोभितश्रीजिनचंद्रसूरि । तत्पट्ट० श्रीशत्रुजयमंडनखरतरवसहिप्रतिष्ठापक-विख्यातातिशयलक्ष-श्रीजिनकुशलसूरि। तत्पट्ट० श्रीजिनपद्मसूरि । तत्पट्ट० श्रीजिनलब्धिसूरि । तत्पट्ट० श्रीजिनचन्द्रसूरि । तत्पट्ट० देवांगणावसरवासप्रक्षेपोदितसंघपतिपदाद्युदयश्रीजिनोदयसूरि । तत्पट्ट० श्रीजिनराजसूरि । तत्पट्ट० स्थान-स्थानस्थापितसारज्ञानभांडागार-श्रीजिनभद्रसूरि । तत्पट्ट ० श्रीजिनचंद्रसूरि । तत्पट्ट० पंचयक्षसाधक-विशिष्ट क्रिय-श्रीजिनसमुद्रसूरि। तत्पट्ट० तपोध्यानविधानचमत्कृतश्रीसिकंदरपातशाहिपंचशतबंदीमोचनसम्मानित-श्रीजिनहं ससूरि। तत्पट्ट ० पंचनदीसाधकाधिध्यानबलशकलीकृतयवनोपद्रवातिशयर्द्धिराजमान-श्रीजिनमाणिक्यसूरि । तत्पट्टालंकारसारदुर्वादिविजयलक्ष्मीशरण-पूर्वक्रियासमुद्धरण-स्थानस्थानप्राप्तजय-प्रतिदिनवर्द्धमानोदय-सदय-सन्नयत्रिभुवनजनवशीकरणप्रवणपणवध्यानोपशोभितपवित्रसूरिमंत्रविहितलय-दूरीकृतसकलवादिस्मयनिजपादविहारपावितावनीतल-अनुक्रमेण १६४८ श्रीस्तंभतीर्थचतुर्मासकस्थानसमुद्भूतामितमहिमश्रवणदर्शनोत्कंठित जलालदीनप्रभुपातिशाहिश्रीमद्अकब्बरसमाकरण-मिलन-स्वगुणगणतन्मनोनुरंजनसमासादितसकलभूतलाखिलजंतुसुखकारि आषाढाष्टाह्रि कामारिफरमान-श्रीस्तंभतीर्थसमुद्रमीनरक्षणफुरमानतत्प्रदत्तसत्तम श्रीयुगप्रधानपदधारक-तद्वचने न च नयन-शर-रस-रसा[१६५२] मितसंवति माघसितद्वादशीशुभतिथौ अपूर्वपर्व-गुर्वानायसाधितपंचनदीप्रकटीकृतपंचपीरप्राप्तपरमवर-तदादिविशेषश्रीसंघोन्नतिकारक-विजयमानगुरुयुगप्रधानश्री १०८ श्रीजिनचंद्रसूरिसूरीश्वराणां श्रीपातिशाहिसमक्षस्वहस्तस्थापिताचार्यश्रीजिनसिंहसूरिसपरिकराणामुपदेशेन ओसवालज्ञातीयमंत्रिभीमसंताने मंत्रिचांपाभार्यासुहवदे तत्पुत्रमं० महिपति तद्भार्या अमरी तत्पुत्र मंत्री वस्तपाल तद्भार्या शिरीयादे तत्पुत्र मंत्री तेजपाल तद्भार्या श्रीमांनु तत्कुक्षिसरोमराल अर्थिजनमनोभिमतपूरणदेवशाल-देव-गुरुपरमभक्त विशेषतो जिनधर्मानुरक्तस्वांत १२०५. वाडी पार्श्वनाथ मन्दिर, पाटणः (२१०)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org