________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ)
७०९/१३३१
(४४) देहादेरात्यन्तिको वियोगोः मोक्षः । (४५) द्विविधं बाध्यं, सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं, तन्न बाधकोत्कर्षे
कदाचिदपि निरन्वयं विनाशमाविशति । (४६) जीवा उर्ध्वगौरवधर्माणः । अधोगौरवधर्माणः पुद्गलाः । (४७) प्राणा हि द्विविधाः, द्रव्यप्राणा भावप्राणाश्च । तत्र इन्द्रियादयः द्रव्यप्राणाः ज्ञानादयस्तु भावप्राणाश्च। (४८) सम्यक्त्वज्ञानयोगेन एतानि नवतत्त्वानि यः श्रद्धत्ते स्थिराशयः तस्य चारित्रयोग्यता। (४९) तथाभव्यत्वपाकेन यस्यैतत्त्रितयं भवेत् सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् । (५०) भव्यत्वं नाम सिद्धिगमनयोग्यत्वं जीवानामनादिपारिणामिको भावः । (५१) भव्यत्वमेव स्वस्वकालक्षेत्रगुर्वादिद्रव्यलक्षणसामग्रीभेदेन नानाजीवेषु भिद्यमानं
सत्तथाभव्यत्वमुच्यते । (५२) सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्गः । (५३) विशेषलक्षणं सामान्यलक्षणाविनाभावि, सामान्यलक्षणं च विशेषलक्षणाविनाभावि,
सामान्यविशेषलक्षणयोरन्योन्यापरिहारेण स्थित्वात् । (५४) स्वपरव्यसायि ज्ञानं प्रमाणम् । (५५) जैनदर्शने प्रमाणं प्रत्यक्षपरोक्षभेदाद् द्विधा । अनन्तधर्मात्मकं वस्तु प्रमाणविषयः । (५६) इन्द्रियं प्रतिगतमिन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षम् । अक्षव्यापारनिरपेक्षं
मनोव्यापेणासाक्षादर्थपरिच्छेदकम् परोक्षम् । (५७) प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावसम्भवतिह्य प्रातिभयुक्त्यनुपलब्ध्यादीनि प्रमाणानि सन्ति ।
तत्रानुमानागमौ परोक्षप्रकारावेव विज्ञातव्यौ । उपमानं तु परोक्षभेदे प्रत्यभिज्ञायामन्तर्भाव्यम् ।
अर्थापत्तेः अनुमानान्तर्गतैव।। (५८) अविशदमविसंवादि ज्ञानं परोक्षम् । स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चधा । (५९) सम्भवस्तु अनुमानान्तर्गतः । सम्भवोऽपि समुदायेन समुदायिनोऽवगम इत्येवंलक्षणः । (६०) ऐतिह्यं अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् एवमूचुर्वृद्धा यथा "इह वटे यक्षः प्रतिवसति'' इति
तदप्रमाणं अनिर्दिष्टवक्तृकत्वेन सांशयिकत्वात्, आप्तप्रवक्तृकत्वनिश्चये त्वागम इति । (६१) प्रातिभं अनिन्द्रियनिबन्धनतया मानस प्रत्यक्षकुक्षिनिक्षिप्तमेव । (६२) संस्कारप्रबोधसम्भूतनुभूतार्थविषय तदित्याकारं वेदनं स्मरणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org