________________
७०८/१३३०
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी ( सार्थ)
(३०) शब्दबन्धसौक्ष्म्यस्थौल्पसंस्थानभेदतमच्छायातपोद्योतवन्तः पुद्गलाः । (३१) पुद्गला द्वेधा, परमाणवः स्कन्धाश्च । (३२) परमाणोर्लक्षणमिदम् – “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो ।
द्विस्पर्शः कार्यलिङ्गश्च ॥ (३३) स्कन्धाः पुनद्व्यणुकादयोऽनन्ताणुकपर्यन्ताः सावयवाः प्रायो ग्रहणादानादिव्यापारसमर्थाः
परमाणुसंघाताः । (३४) एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड्द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि, जीवाः
पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि पुद्गलास्तु मूर्ता एव । (३५) या च सत्स्वभावानामपि भावानामनुपलब्धिः, सात्राष्टधा भिद्यते । तथाहि-अतिदूरात् १,
अतिसामीप्यात् २, इन्द्रियघातात् ३, मनसोऽनवस्थानात् ४, सौक्ष्म्यात् ५, आवरणात् ६,
अभिभवात् ७, समानाभिहाराच्चेति ८. (३६) धर्मो गत्युपग्रहकार्यानुमेयः, अधर्मः स्थित्युपग्रहकार्यानुमेयः, अवगाहोपकारनुमेयाकाशं,
वर्तनाद्युपकारानुमेयः कालः, प्रत्यक्षानुमानागमावसेयाश्च पुद्गलाः । (३७) पुण्याद्विपरीतम् - नरकादिफलनिर्वर्तकत्वादप्रशस्ता जीवसंबद्धाः, कर्मपुद्गलाः पापम् । (३८) आस्रवति कर्म एभ्यः स आस्रवः । मिथ्यात्व अविरति प्रमाद-कषाय योग विषया
मनोवाक्कायव्यापारा एव शुभाशुभकर्मबन्धहेतुत्वादास्रवः । (३९) असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम् । हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः ।
कषायाः क्रोधादयः । योगा मनोवाक्कायव्यापाराः । (४०) अयं आस्रवः पुण्यापुण्यबन्धहेतुतया द्विविधः । द्विविधोऽप्ययं मिथ्यात्वाद्युत्तरभेदा
ऐसयोत्कर्षापकर्षभेदापेक्षया अनेकप्रकारः। (४१) मिथ्यात्वाद्याश्रवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षाभिनिरोधो निवारणं
स्थगनं संवरः । स च देशसर्वभेदावेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः । शेषकाले
चरण (चारित्र) प्रतिपत्तेरारभ्य देशसंवरः। (४२) वक़्ययस्पिण्डसम्बन्धवत् क्षीरोदकसम्पर्कवद्वा जीवकर्मणोमिथोऽनुप्रवेशात्मक एव सम्बन्धो
बन्धः । स च प्रशस्ताप्रशस्तभेदाद् द्वेधा । प्रकृति-स्थिति-अनुभाग-प्रदेश भेदाच्च चतुर्विधा । प्रकृतिः स्वभावो यथा ज्ञानावरणं ज्ञानाच्छादनस्वभावम् । स्थितिः अध्यवसायकृतः कालविभागः । अनुभागो रसः प्रदेशः कर्मदलसंचयः । पुनरपि मूलप्रकृतिभेदादष्टधा ज्ञानावरणादिकः ।
उत्तरप्रकृतिभेदादष्टपञ्चाशदधिकशतभेदः । (४३) यो बद्धस्य कर्मणः साटो सा निर्जरा मता। सा च सकामाकामभेदाद्विधा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org