________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
वृ० स्व० श्लो० १०३ । त० वा० पृ० ३५ ।
(G-35) "नापि वैयधिकरण्यम्, एकाधारतया निर्बाधबोधे तयोः प्रतिभासमानत्वात् । " न्यायकुमु० पृ० ३७१ । अष्टसह० पृ० २०६ ।
(G-36) “नापि सङ्करव्यतिकरौ, स्वस्वरूपेणैव अर्थे तयोः प्रतीयमानत्वात्।” न्यायकुमु० पृ० ३७१ । “एकत्र बहुभेदानां संभवान्मेचकादिवत् ॥” न्यायविनि० ३।४५ । “यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ॥५७|| चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणम् । यदा तु शवलं वस्तु युगपत्प्रतिपद्यते ॥६२॥ तदान्यानन्यभेदादि सर्वमेव प्रलीयते ॥ " मीमांसाश्लो० आकृतिवाद । " एकाऽनेकस्वभावात्मकत्वं मेचकस्य वा । कथं च एकस्य नरसिंहत्वम् उमेश्वरत्वं वा स्यात् ।" न्यायकुमु० पृ० ३६९।
(G-37) “स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः ।" ब्रह्म० शां० भा० २।२।३३ । “तथा मुक्तावप्यनेकान्तो न व्यावर्तत इति मुक्तो न मुक्तश्चेति स्यात् । एवं च सति स एवमुक्तः संसारी चेति प्रसक्तेः ।" प्रश० व्यो० पृ० २० च ।
६९९/१३२१
(G-38) “विरोधादेकमनेकस्वभावमयुक्तमिति चेत् तथा च प्रावटुकप्रवादः । एकं च चित्रं चेत्येतच्च चित्रतरं तत इति । को विरोधो नीलादीनां न तावदितरेतराभावात्मको भावस्वभावानुगमात् । अन्योन्यसंश्रयापत्तेश्च स्वरूपान्यत्वं विरोध इति चेत् सत्यमस्त्येव तथापि चित्रात्मनो रूपस्य नायुक्तता विचित्रकारणसामर्थ्यभाविनस्तस्य सर्वलोकप्रसिद्धेन प्रत्यक्षेणेवोपपादितत्वात् ।" प्रश० कन्द० पृ० ३० ।
(G-39) “द्विविधो हि पदार्थानां विरोधः । अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः । शीतोष्णस्पर्शवत् । परस्परपरिहारस्थितिलक्षणतया वा भावाभाववत् ।" न्यायवि० ३।७२-७५ ।
(G-39/1) तथाहि “न हिंस्यात् सर्वभूतानि" इति प्रथममुक्त्वा, पश्चात् तत्रैव पठितम् - षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥ तथा अग्नीषोमीयं पशुमालभेत सप्तदश प्राजापत्यान् पशूनालभेत इत्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते । तथा नानृतं ब्रूयात् इत्यादिना अनृतभाषणं प्रथमं निषिध्य ब्राह्मणार्थेऽनृतं ब्रूयात् इत्यादि तथा न नर्मयुक्तं.. स्या० मं० पृ० ५१ ।
(G-40) "सर्व स्वं ब्राह्मणस्येदं यत्किंचिज्जगतीगतम् । श्रेष्ठयेनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ।। स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जना: ।" मनु० १।१००-१०१ ।
(G-41) “तथा अपुत्रस्य गतिर्नास्ति इति लपित्वा, अनेकानि सहस्राणि.." स्या० मं० पृ० ५२ । (G-42) “उद्धृतोऽयम्" स्या० मं० पृ० १३० ।
(G-43) “धर्मविशेषप्रसूताद्द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org