________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता । अत्र पुनः कारणं पूर्वसिद्धं मृत्सुवर्णादिलक्षणं ततः कार्यं पश्चाज्जायमानं तदाश्रितमेव जायते... अतो भिन्नाभिन्नरूपं ब्रह्मेति स्थितम् । संग्रहश्लोकः-कार्यरुपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा । भास्करभा० पृ० १६-१७ । तस्मात् प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम् । ननु विरुद्धौ भेदाभेदौ कथमेकत्र स्याताम् । न विरोधः सह दर्शनात् । यदि हि इदं रजतम्, नेदं रजतम् इतिवत् परस्परोपमर्देन भेदाभेदौ प्रतीयेयाताम् ततो विरुद्ध्येयाताम् न तु तयोः परस्परोपमर्देन प्रतीतिः । इयं गौरिति बुद्धिद्वयम् अपर्यायेण प्रतिभासमानमेकं वस्तुद्वयात्मकं व्यवस्थापयति सामानाधिकरण्यं हि अभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः । अपेक्षाभेदाच्च, एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यो भेदः द्रव्यरूपेण चाभेदः । शास्त्रदी० पृ० ३९३-९५ । विरोधाभावस्तल्लक्षणाभावात् । न चैवमस्तित्वनास्तित्वयोः क्षणमात्रमपि एकस्मिन् वृत्तिरस्ति इति भवताभ्युपगम्यते यतो बध्यघातकभावरूपो विरोधः तयोः कल्प्येत । न च तथा जीवस्यास्तित्वनास्तित्वे पूर्वोत्तरकालभाविनि । यदि स्याताम् अस्तित्वकाले नास्तित्वाभावात् जीवसत्ता मात्रं सर्वं प्राप्नुवीत । नास्तित्वकाले च अस्तित्वाभावात्तदा श्रेयो बन्धमोक्षादिव्यवहारो विरोधमुपगच्छेत् । सर्वथैवासत: पुन: आत्मलाभाभावात्, सर्वथा च सतः पुनरभावप्राप्त्यनुपपत्तेः नैतयोः सहानवस्थानं युज्यते । तथा जीवादिषु प्रतिबन्ध्यप्रतिबन्धकभावोऽपि न विरोधः संभवति । न च तथा अस्तित्वं नास्तित्वस्य प्रयोजनं प्रतिबन्ध्नाति तस्मिन्नेव काले परद्रव्यादिरूपेणानुपलब्धिबुद्ध्युत्पत्तिदर्शनात्। नास्तित्वं वा सदस्तित्वप्रयोजनं प्रतिबन्धानाति तदैव स्वरूपाद्यपेक्षयोपलब्धिबुद्धिदर्शनात् । तस्माद् वाङ्मात्रमेव विरोध: । त० वा० पृ० २६१ । प्रमाणसं० पृ० १०३ । अष्टश० अष्टसह० पृ० २०६ । तत्त्वार्थ० श्लो० पृ० ४३४ | सन्मति० टी० पृ० ४५१ । न्यायकुमु० पृ० ३७० | स्या० र० पृ० ७४१ । प्रमेयरत्न मा० ४। १ । प्रमाणमी० पृ० २८ । स्याद्वादमं० पृ० १९७ । सप्तभंगीत० पृ० १८१ । शास्त्रवा० टी० पृ० २६६ ।
६९८ / १३२०
(G-31) “यथा एकस्य देवदत्तस्य पिता पुत्रो भ्राता भागिनेय इत्येवमादयः संबन्धा जनकत्वजन्यत्वादिनिमित्ता न विरुद्ध्यन्ते अर्पणाभेदात् । पुत्रापेक्षया पिता, पित्रपेक्षया पुत्र इत्येवमादिः तथा द्रव्यमपि सामान्यपेक्षया नित्यम्, विशेषार्पणयानित्यमिति नास्ति विरोध: । " सर्वार्थसि० ५। ३२ । अर्पणाभेदादविरोधः पितापुत्रादिसंबन्धवत् । त० वा० पृ० ३६ ।
(G-32) "संशयहेतुरिति चेन्न, विशेषलक्षणोपलब्धेः ।" त० वा० पृ० ३६ । अष्टसह० पृ० २०७ । न्यायकुमु० पृ० ३६८ ।
(G-33) "तत एव नानावस्था, स्थित्यात्मनि जन्मविनाशानिष्टेर्जन्मात्मनि स्थितिविनाशानुपगमाद्विनाशे स्थितिजन्मानवकाशात् प्रत्येकं तेषां भयात्मकत्वानुपगमात् । न चैवमनेकान्ताभ्युपगमादनेकान्ताभावः, सम्यगेकान्तस्यानेकान्तेन विरोधाभावात्, नयार्पणादेकान्तस्य प्रमाणार्पणादनेकान्तस्यैवोपदेशात् तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थिते: ।" अष्टसह० पृ० २०७ ।
(G-34) “अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणान्ते तदेकान्तोऽर्पितान्नयात् । "
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org