________________
५८०/१२०३
षड्दर्शन समुच्चय, भाग-२, परि-६ अनेनान्यस्ततश्चान्यस्ततोऽसाविति चक्रकम् । अतीतास्पृष्टमन्यान्यग्रहणं त्वनवस्थितिः ।।१३।। गौरवं लाघवं चेति तर्को सार्वत्रिकावुभौ । गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ।।१४।। दोषप्रसङ्गरूपत्वं गौरवस्यैव विद्यते । साध्ये गुणकथाद्वारा लाघवस्य प्रसङ्गता ।।१५।। साध्याभावानुवादेन दोष: साध्ये गुणोऽपि वा । यत्रानुकूलतर्कोऽसौ साध्यसिद्धावनुग्रहात् ।।१६।। साध्यस्यैवानुवादेन यदनिष्टप्रसञ्जनम् । स तर्कः प्रतिकूलः स्यात् साध्यसिद्धिनिरोधनात् ।।१७।। अथवोपाधिशकैव तनिष्कास्यते स्फुटम् । उपाधिर्मानयोग्यो वा तदयोग्योऽथवा भवेत् ।।१८।। अयोग्यश्चेन शङ्कयेत योग्यश्चेत् किं न दृश्यते । अनुमानादिगम्यश्चेल्लिङ्गादिः किं न दृश्यते ।।१९।। इत्यादि शङ्काव्याघातपर्यन्तमेवं सर्वानुमास्वपि । तर्कजालं प्रयोक्तव्यमत्यल्पं चेदमुच्यते ।।२०।। यत: प्रत्यक्षशाब्दादिप्रमाणान्यखिलान्यपि । तर्क विना न जीवन्ति प्रत्यक्षे तावदीक्षताम् ।।२१।। एवं सर्वत्र तर्कोघेराभासनिरासतः । वाक्यार्थस्थापनी सर्वा मीमांसा तर्करूपिणी ।।२२।। तस्मात्सर्वप्रमाणानां तर्कोऽनुग्राहकः स्थितः । साध्ये विपर्ययाशङ्काविच्छेदस्तदनुग्रहः ।।२३।। अस्याविज्ञाततत्त्वोऽर्थः सन्दिग्धो विषयो मतः । हेतुरारोपितं लिङ्गं फलं तत्त्वार्थनिर्णयः ।।२४।। तदेवं तत्त्वसिध्यर्थम् अन्यथानिष्टवर्णने । प्रसरत्यसदारोप तत्साधनपरम्परा ।।२५।। तत्रचारोपवादेऽपि सिद्धान्तत्वभ्रमः क्वचित् । वेदश्चेदीश्वराधीनस्तहींशोऽपि न सिध्यति ।।२६।। इत्युक्तावीश्वराभावः सिद्धान्त इति मन्वते । असंभाव्यस्य चारोपादसंतोषः क्वचिद्भवेत् ।।२७।।
अपकर्षाप्रतिष्ठश्चेत्परमाणुस्तथा सति । अनन्तावयवारम्भान्मेरुसर्षपयोर्द्वयोः । स्यात्तूल्यपरिमाणत्वमित्याधुक्तिर्यथा भवेत् ।।२८।। तत्र चास्य प्रमाणस्य तर्कोऽयं तस्य सिद्धये । अन्यदुक्तमिति व्यक्तं विविञ्चन्नैव मुह्यति ।।२९।। तस्मात्तर्कप्रकारोऽयं प्रसङ्गप्रापितोऽपि सन् । अत्यन्तमुपकारीति विस्तरात्प्रस्तुतो मया ।।३०।। भूयो दर्शनतः शक्या दृश्योपाधिनिराक्रिया । अदृश्योपाधिशङ्का तभैरेव निरस्यते ।।३१।। व्याप्तिनियमः प्रतिबन्धोऽव्यभिचारस्तथाविनाभावः । व्याप्यं पुनर्नियम्यं गमकं लिङ्गं च साधनं हेतुः । इत्युभयोः पर्याया इति तस्य तु दर्शनं त्रिविधम् ।।३२।।
आत्मतत्त्वविवेककार ने जो कहा है-“स च आत्माश्रयेतरेतराश्रयचक्रकानवस्थानिष्टप्रसङ्गभेदेन पञ्चविधः" (आ०वि०पृ० ४०४) और इसी का जो अनुवाद तार्किकरक्षाकार ने किया है-"आत्माश्रयादिभेदेन तर्कः पञ्चविधः स्मृतः" (ता. र० पृ० १८६)। वह कहना युक्त नहीं, क्योंकि आत्माश्रयादि चारों दोष अनिष्ट प्रसङ्गरूप हैं और अनिष्टप्रसङ्ग तर्क का स्वरूप ही है । (श्री मणिकण्ठ मिश्र ने भी ऐसा ही माना है -"तदयमात्माश्रयान्योऽन्याश्रयचक्रकानवस्थानिष्टप्रसङ्गभेदेन पञ्चविध इति केचित् । तत्र आत्माश्रयादीनामप्यनिष्टप्रसङ्गान्तर्भूतत्वात्, तथा हि'स्वस्याव्यवहितस्वापेक्षणमात्माश्रयः' (न्या०र०पृ० २७) इत्यादि । अन्योऽन्याश्रयादि के वे ही स्वरूप यहाँ भी दिखाए गये हैं) । किसी पदार्थ की उसी से सिद्धि (उत्पत्ति, स्थिति और ज्ञप्ति) मानने पर आत्माश्रय होता है, उसका उद्भावन इस प्रकार होता है-“यद्ययं घटः एतद्घटजन्यः स्यात्, तदा एतद्घटाद्यकालवृत्तिर्न स्यात्" अथवा 'यद्ययं घट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org