________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ७४, मीमांसक दर्शन
पुनर्लेङ्गिकम्" यह पद जानना । लिंग से उत्पन्न होनेवाले लिंगि के ज्ञान को अनुमान कहा जाता है। यह अनुमान के लक्षण की साधारण सूचनामात्र ही है । उसका पूर्णलक्षण तो शाबरभाष्य में इस अनुसार से बताया है “ज्ञातसंबन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम्" साध्य और साधन के अविनाभाव के यथार्थज्ञानवाले पुरुष को एकदेश-साधन को देखने से असन्निकृष्ट-परोक्ष साध्य अर्थ का ज्ञान होता है, उसे अनुमान कहा जाता है। (जैसे कि, रसोईघर में धूम और अग्नि के अविनाभावसंबंध को जाने वाला पुरुष को (पर्वत के उपर ) धूम का दर्शन होने से असन्निकृष्ट = परोक्ष ऐसे वह्नि का ज्ञान होता है, उसे अनुमान कहा जाता है | ) ||७३||
अथ शाब्दमाह
३६२ / ९८५
-
अब शाब्दप्रमाण का लक्षण कहते है
शाब्दं शाश्वतवेदोत्थमुपमानं तु कीर्तितम् ।
प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य साधनम् । ।७४ ।।
श्लोकार्थ : नित्यवेद से उत्पन्न होनेवाले ज्ञान को शाब्द = आगम कहा जाता है । प्रसिद्ध अर्थ की सदृशता से अप्रसिद्ध की सिद्धि करना उसे उपमान कहा जाता है | || ७४॥
व्याख्या-शाश्वतोअपौरुषेयत्वान्नित्यो यो वेदः तस्मादुत्था- उत्थानं यस्य तच्छाश्वतवेदोत्थम् । अर्थाद्वेदशब्दजनितं ज्ञानं शाब्दं प्रमाणम् । अस्येदं 'लक्षणं “ शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्दम्” [शाबरभा. १ ।१ । ] इति -95 । अयं शब्दोऽस्यार्थस्य वाचक इति यज्ज्ञानं तच्छब्दज्ञानम् । तस्मादनन्तरं शब्दे श्रुते ज्ञानादसन्निकृष्टेऽर्थे अप्रत्यक्षेऽप्यर्थे- घटादौ बुद्धिः ज्ञानं शाब्दं प्रमाणम् । शब्दादप्रत्यक्षे वस्तुनि यज्ज्ञानमुदेति तच्छाब्दमित्यर्थः । अत्र मते शब्दस्येदं स्वरूपं प्ररूप्यते । नित्या आकाशवत्सर्वगताश्च वर्णाः । ते च ताल्वोष्ठादिभिरभिव्यज्यन्ते न पुनरुत्पाद्यन्ते । विशिष्टानुपूर्वीका वर्णाः शब्दो - " नित्यः । शब्दार्थयोर्वाच्यवाचकसंबन्ध इति || अथोपमानमाह “उपमानं तु” इत्यादि । उपमानं पुनः कीर्तितम् । तत्किं रूपमित्याह “प्रसिद्धार्थस्य" इत्यादि । प्रसिद्ध उपलब्धोऽर्थो गवादिर्यस्य पुंस स प्रसिद्धार्थः ज्ञातगवादिपदार्थ इत्यर्थः । तस्य गवयदर्शने साधर्म्याद्गवयगतसादृश्यात्परोक्षे गवि अप्रसिद्धस्य पुरानुपलब्धस्य सादृश्यसाधनं ज्ञानम् । अस्येदं सूत्रं “उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य” [ शाबर भा० १ । १ । ] इति । व्याख्या - गवयसादृश्यादसन्निकृष्टेऽर्थे परोक्षस्य गोः सादृश्ये गोस्मरणस्येति । गवि स्मरणं यस्य पुंसः स गोस्मरणः तस्य गोस्मरणवत इत्यर्थः । शेषं स्पष्टम् । तत्रेदं तात्पर्यम् येन प्रतिपत्रा गौरुपलब्धो न गवयो न चातिदेशवाक्यं “ गौरिव गवयः ' इति श्रुतं, तस्यारण्ये पर्यटतो गवयदर्शने प्रथम उपजायते परोक्षे गवि सादृश्य-ज्ञानं यदुत्पद्यते
Jain Education International
(G-95-96) - तु० पा० प्र० प० ।
For Personal & Private Use Only
www.jalnelibrary.org