________________
३४८/९७१
षड्दर्शन समुञ्चय भाग - २, श्लोक - ६७, मीमांसक दर्शन
।। षष्ठोऽधिकारः ।। मीमांसक दर्शन ॥
अथ मीमांसकमतं जैमिनीयापराह्वयं प्रोच्यते । जैमिनीया वेषेण साङ्ख्या इवैकदण्डास्त्रिदण्डा धातुरक्तवाससो मृगचर्मोपवेशनाः कमण्डलुधरा मुण्डशिरसः संन्यासिप्रभृतयो द्विजाः । तेषां वेद एव गुरुर्न पुनरन्यो वक्ता गुरुः । त एव स्वयं तव संन्यस्तं संन्यस्तमिति भाषन्ते । यज्ञोपवीतं च प्रक्षाल्य निर्जलं पिबन्ति ।। ते द्विधा, एके याज्ञिकादयः पूर्वमीमांसावादिनः, अपरे तृत्तरमीमांसावादिनः । तत्र पूर्वमीमांसावादिनः कुकर्मविवर्जिनो, यजनादिषट्कर्मकारिणो, ब्रह्मसूत्रिणो गृहस्थाश्रमसंस्थिताः शूद्रान्नादिवर्जका भवन्ति । ते च द्वेधा भाट्टाः प्राभाकराश्च षट् पञ्च प्रमाणप्ररूपिणः । ये तूत्तरमीमांसावादिनः, ते वेदान्तिनो ब्रह्माद्वैतमेव मन्यन्ते । “सर्वमेतदिदं ब्रह्म” [छान्दो० ३/१४/१] इति भाषन्ते प्रमाणं च यथा तथा वदन्ति । एक एवात्मा सर्वशरीरेषुपलभ्यत इति जल्पन्ति । “एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।१।।” [त्रि० ता० ५/१२] इति वचनात् । “पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम्” । [ऋक्० १०/९०/२] इति वचनाञ्च । आत्मन्येव लयं मुक्तिमाचक्षते, न त्वपरां कामपि मुक्तिं मन्यन्ते । ते च द्विजा एव भगवन्नामधेयाश्चतुर्धाभिधीयन्ते कुटीचरबहूदकहंसपरमहंसभेदात् । तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽनन् कुट्यां निवसन कुटीचर-90 उच्यते । कुटीचरतुल्यवेषो विप्रगेहनैराश्यभिक्षाशनो विष्णुजापपरो नदीनीरस्नायी बहूदकः कथ्यते । ब्रह्मसूत्रशिखाभ्यां रहितः कषायाम्बरदण्डधारी ग्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधूमेषु विगताग्निषु विप्रगेहेषु भिक्षां भुञ्जानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते । हंस एवोत्पन्नज्ञानश्चातुर्वर्ण्यगेहभोजी स्वेच्छया दण्डधार ईशानी दिशं गच्छन् शक्तिहीनतायामनशनग्राही वेदान्तैकध्यायी परमहंसः समाख्यायते । एतेषु चतुर्पु परः परोऽधिकः । एते च चत्वारोऽपि केवलब्रह्माद्वैतवादसाधनैकव्यसनिनः शब्दार्थयोनिरासायानेका युक्तीः स्फोरयन्तोऽनिर्वाच्यतत्त्वे यथा व्यवतिष्ठन्ते तथा खण्डनतर्कादभियुक्तैरवसेयम् । नात्र तन्मतं वस्यते । व्याख्या का भावानुवाद :
अब मीमांसकमत, कि जिसका दूसरा नाम जैमिनि दर्शन है, उसका वाच्यार्थ कहा जाता है। A. “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीताथ..." छान्दोग्योप ३/१४/१ त्रि० भ० ना० १/३ “ब्रह्म खल्विदं वाव
सर्वम् ।" मैत्र्युप० ४/६/३ (G-90) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org