________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ६१, वैशेषिक दर्शन
G-55 मनश्चित्तं, तच नित्यं द्रव्यमणुमात्रमनेकमाशुसंचारि प्रतिशरीरमेकं च 1 युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्, आत्मनो हि सर्वगतत्वाद् युगपदनेकेन्द्रियार्थसंनिधाने सत्यपि क्रमेणैव ज्ञानोत्पत्त्युपलम्भादनुमीयते 1 आत्मेन्द्रियार्थसंनिकर्षेभ्यो व्यतिरिक्तं कारणान्तरं मनोऽस्तीति यस्य संनिधानाज्ज्ञानानामुत्पत्तिरसंनिधानाच्चानुत्पत्तिरिति । तस्य च मनसो मृतशरीरान्निर्गतस्य मृतशरीरप्रत्यासन्नमदृष्टवशादुपजातक्रियैरणुभिर्ह्यणुकादिक्रमेणारब्धमतिसूक्ष्ममनुपलब्धियोग्यं शरीरं संक्रम्यैव स्वर्गादौ गतस्य स्वर्गाद्युपभोग्यशरीरेण संबन्धो भवति । केवलस्य त्वेतावद्दूरं गतिर्न स्यात् । तच्च मरणजन्मनोरान्तरालं गतं शरीरं मनसः स्वर्गनारकादिदेशं प्रतिवहनधर्मकत्वादातिवाहिकमित्युच्यते, ततो द्वन्द्वे कालदिगात्ममनांसि । चः समुच्चये । तत्र पृथिव्यापस्तेजोवायुरित्येतच्चतुः सङ्घयं द्रव्यं प्रत्येकं नित्यानित्यभेदाद्विप्रकारम् । तत्र परमाणुरूपं नित्यं “सदकारणवन्नित्यम्” [वैशे० सू० ४/१/१] इति वचनात् । तदारब्धं तु द्व्यणुकादिकार्यद्रव्यमनित्यम् । आकाशादिकं नित्यमेव, अनुत्पत्तिमत्त्वात् । एषां च द्रव्यत्वाभिसंबन्धाद्द्रव्यरूपता । द्रव्यत्वाभिसंबन्धश्च द्रव्यत्वसामान्योपलक्षितः समवायः । तत्समवेतं वा सामान्यम् । एतच द्रव्यत्वाभिसंबन्धादिकमितरेभ्यो गुणादिभ्यो व्यवच्छेदकमेषां लक्षणम् । एवं पृथिव्यादिभेदानामपि पाषाणादीनां पृथिवीत्वाभिसंबन्धादिकं C-56 लक्षणमितरेभ्योऽबादिभ्यो भेदव्यवहारहेतुर्दष्टव्यम् अभेदवतां त्वाकाशकालदिग्द्रव्याणामनादितच्छब्दवाच्यता -57 द्रष्टव्या । इदं च नवविधमपि द्रव्यं सामान्यतो द्वेधा, अद्रव्यं द्रव्यं अनेकद्रव्यं च द्रव्यमूतत्राद्रव्यमाकाशकालदिगात्ममनः परमाणवः कारणद्रव्यानारब्धत्वात् । अनेकद्रव्यं तु ह्यणुकादिस्कन्धाः । तत्र च द्वाभ्यां परमाणुभ्यां कार्यद्रव्ये आरब्धेऽणुरिति व्यपदेशः, परमाणुद्वयारब्धस्य छ्यणुकस्याणुपरिमाणत्वात् । त्रिचतुरैः परमाणुभिरारब्धस्यापि कार्यद्रव्यस्याणुपरिमाणतैव स्यात्, परं द्व्यणुकव्यपदेशो न स्यात् । त्रिभिर्ह्यणुकैश्चतुर्भिर्वारब्धे त्र्यणुकमिति व्यपदेशः, न तु द्वाभ्यां द्व्यणुकाभ्यामारब्धे, द्वाभ्यामारब्धस्य ह्युपलब्धिनिमित्तं महत्त्वं न स्यात् । त्र्यणुकं च द्रव्यमुपलब्धियोग्यमिष्यते । ततश्चापरापरारब्धत्वेऽपरापरद्रव्योत्पत्तिर्ज्ञेया ।। गुणः पुनः पञ्चविंशतिधा स्पष्टम् ।।६१ ।।
व्याख्या का भावानुवाद :
मन = चित्त । वह नित्य है, परमाणुरूप है, अनेक है। प्रत्येक शरीर में एक-एक रहता है। तथा बहोत शीघ्रगति से समग्रशरीर में गति करता है। एक साथ सभी ज्ञानो की उत्पत्ति न होना, वही मन का लिंग है -
(G-55-56-57 ) तु० पा० प्र० प० ।
-
Jain Education International
३१९/ ९४२
For Personal & Private Use Only
www.jainelibrary.org